________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३४] पदार्थचन्द्रिकाटीकासहिता । २३१ ततश्च
संपत्तिः किंपचानानां संप्राप्ता कापथेन या ॥
नरकानुभवोदको न सा लक्ष्म्याः कृपाफलम् ॥ ४२४ ॥ तथाहिधन्यंमन्यतया तृणीकृतबुधा धर्मेषु दुर्मेधसः
सेव्स्तामसपुण्यलेशविलसत्संपल्लवाः पल्लवाः ॥ पश्यासूनपहाय पञ्चषदिनान्याकल्पमल्पा इमे ___ भोक्ष्यन्ते बत यातना बहुविधाः कार्तान्तगर्तान्तरे ॥४२५॥ यच्च भणितं भवता तत्रभवतः शिष्टान् लक्ष्मीन वीक्षत इति तदज्ञानोपबृंहितमेव । यतः साधुजनेभ्यो मुक्त्यैश्वर्यपर्यन्तनिरन्तरभगव
संपत्तिरिति । किंपचानानां कृपणानां "कदर्ये कृपण-क्षुद्र-किंपचान-मितं. पचाः।" इत्यमरः । संपत्तिः या कापथेन कुत्सितमार्गेण प्राप्ता, सा नरकानुभव: उदर्कः उत्तरं फलं यस्याः सा तथाभूता । अत एव सा लक्ष्म्याः कृपाफलं न भवति । नहि खलु लोकमातुः कृपारसाईचित्ताया लक्ष्म्याः प्रसादेन दुर्गत्युदर्काणि फलानि भवन्तीति भावः ॥ ४२४ ॥
नरकानुभवोदकत्वमेव प्रपञ्चयति-धन्यंमन्यतयेति । आत्मानं धन्यं मन्यन्ते ते धन्यमन्यास्तेषां भावो धन्यंमन्यता तया हेतुना तृणीकृतास्तृणवत्तुच्छीकृता बुधाः पण्डिता यैस्ते तथाभूताः अत एव दुर्मेधसो दुष्टबुद्धयः, धर्मेषु सेाः धर्मनिबन्धनान्यसहमाना इत्यर्थः । पल्लवाः परदारासक्ताः जाराः “पल्लवः किसले बले । विटपे विस्तरेऽलक्तरागे शृङ्गार-षिङ्गयोः।” इति कोशः । अल्पाः क्षुद्राः पञ्चषदिनानि पञ्चषदिनपर्यन्तमित्यर्थः । “बहुव्रीहौ संख्येये-" इत्यादिना डचि टिलोपः । तामसः तमो. गुणप्रभवः यः पुण्यस्य लेश: अंशः तेन विलसन् संपदः धनादिसंपत्तेः लवो लेशो येषां ते तथोक्ताः इमे जनाः अन्ते असून प्राणानपहाय त्यक्त्वा आकल्पं कल्पपर्यन्तं बहुविधाः यातनाः तीवनरकवेदनाः कृतान्तस्य यमस्य अयं कार्तान्तः स चासौ गर्तः नरकरूपः तस्य अन्तरे मध्ये भोक्ष्यन्ते; पश्य । बतेति खेदे ॥ ४२५ ॥
एतावता 'दातुरि य एष-' इत्यादिना 'हन्तुबन्धुजनान्-' इत्यादिना चोक्तं दृषणं.परिहत्य ' येषामन्यकलत्रदर्शन-' इत्यादिनोक्तं दूषणं परिहर्तुमाहयश्चेति । यच्च तत्रभवतः पूज्यान् शिष्टान् जनान् प्रति लक्ष्मीर्न वीक्षते नावलो
१ 'लक्ष्मीकृपा'. २ पञ्च'. ३ 'पञ्चषदिनैराकल्पकल्पा'. ४'विन्दते'. ५ 'अज्ञानोपशमवज्ञातुमेवाईम्'.
For Private And Personal Use Only