________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीपुननिरूप्य---- क्षितिभृद्भिर्निजमौलिषु धृतपादो विरहितापकारी च ॥ इन्दुरिव रङ्गबन्धुर्दोषाभावे विलोक्यते किंतु ॥ ४०३ ॥ यद्वा--- न विधौ शुभरङ्गलक्षिताङ्गे समुदाप्यायनकारिणीह दृष्टे ॥ कलयामि कुरङ्गलक्षिताङ्गं कुमुदाप्यायनकारिणं विधुं तम् ॥ ४०४ ।। पुनः संचिन्त्य सविस्मयम्
रङ्गेशसेवको युक्तं नातरीतिं भजेदिति ॥
चित्रमेतदसङ्गीति व्यपदेशं यदश्नुते ॥ ४०५ ॥ यावहशब्दाश्रयाः, अत एव मे मम रोष क्रोधं आवहन्ति संपादयन्ति तथाभूताः रोषोत्पादका इति यावत् । न भवन्ति । प्रत्युत तर्हि तोषावहाः संतोषजनका एव सन्तीति नाहमत्र त्वदुक्तदूषणेषु उत्तरयामि, प्रत्युत्तरं न ददामि ॥ १७१ ॥
क्षितिभृद्भिरिति । क्षितिमृद्भिः राजभिः पर्वतैश्च निजमौलिषु खकीयमस्तकेछु शिखरेषु च धृती पादौ चरणौ यस्य सः, पक्षे धृताः पादाः किरणाः यस्य सः इति चे, अविः पर्वतः मेरुखरूपः, सूर्यो वा "अवयः शैल-मेषाऽर्काः' इत्यमरः । अथवा विः पक्षी गरुडः भगवद्विभूतिरूपः “मेरुः शिखरिणामहम्" "आदित्यानामहं विष्णुज्योतिषां रविरंशुमान् ।" "वैनतेयोऽस्मि पक्षिणाम् ।” इति भगवद्गीतायां भगवतैवोक्तत्वात् । अहितानां शत्रूणां अपकारी नाशकर्ता, पक्षे विरहिणां प्रियजनवियोगयुक्तानां तापकारी संतापजनकश्च रङ्गबन्धुः श्रीरङ्गनाथः इन्दुरिव चन्द्र इव, किंतु दोषाणां कामक्रोधादीनां अभावे सति, दोषाभावे निशाभावे च विलोक्यते दृश्यते ॥ ४०३ ॥
किंच नेति । शुभे कल्याणगुणयुक्त रङ्गे क्षेत्रे लक्षितं अझं मूर्तिर्यस्य तस्मिन् , सुष्ठ शोभना अत्यन्तकल्याणावहा या मुत् आनन्दः तया आप्यायनकारिणि सुखकारिणि इह क्षेत्रे, विधौ चन्द्रे विष्णौ च "विधुर्विष्णौ चन्द्रमसि" इत्यमरः । दृष्टे सति, पुनः कुत्सितेन निन्दितेन रङ्गेण लक्षितं अङ्गं यस्य सः तं कुरङ्गेण मृगेण च लक्षितं चिह्नितं अङ्गं शरीरं यस्य सः तं च, कुत्सितया मुदा आनन्देन, कुमुदानां चन्द्रविकासिकमलानां च आप्यायनकारिणं विकासकारिणं च तं प्रसिद्धं विधुं चन्दं न कलयामि न पश्यामि ॥ ४०४ ॥
रङ्गेशेति । रङ्गेशस्य श्रीरङ्गनाथस्य उत्तमरङ्गस्य च सेवको भक्तः आश्रितश्च आर्तस्य दुःखिन: रीतिं प्रकारं न भजेत् न सेवेत । नाती नृत्यसंबन्धिनी रीतिं च भजेदिति च युक्तं योग्यमेव । किं तु रङ्गेशसेवकः असङ्गी स्यादिभोगासक्तिरहितः इति व्यपदेशं व्यवहारं अश्नुते प्राप्नोति इति यत् , एतदेव चित्रमाश्चर्यम् ॥४०५॥
१ 'पिलोक्यते'. २ 'सुहृदाप्यायन'. ३ 'विचिन्त्य'.
For Private And Personal Use Only