________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३४ ] पदार्थचन्द्रिकाटीकासहिता। . २२१ श्यामोत्तुङ्गपयोधरोज्ज्वलरुचिस्तन्वन्भुजङ्गान्वयम्
श्रीरङ्गस्थलनित्यवासरसिकः शृङ्गारिणामग्रणीः ॥ प्राकारप्रकरान्तरस्थितिमती या राजपद्मिन्यहो
निःशङ्क परपूरुषश्चिरमसौ निद्राति तत्सन्निधौ ।। ४०२ ।। विश्वावसुः-श्लेषावलम्बना दोषा इमे न मे रोषावहाः, प्रत्युत तोषावहा इति नाहमत्रोत्तरयामि ॥ १७१ ॥
तदेव सविस्तृतमुपपादयति-श्यामेति । श्यामानां षोडशवर्षवयस्कानां तरुणीनां "श्यामा षोडशवार्षिकी" इति तल्लक्षणम् । उत्तुङ्गयोरुचयोः पयोधरयोः स्तनयोः उज्जवला अतिशयिता रुचिरासक्तिर्यस्य सः श्यामस्य नीलवर्णस्य उत्तुङ्गस्योन्नतस्य च पयोधरस्य मेघस्येव "स्त्रीस्तनाब्दौ पयोधरौ” इत्यमरः । उज्ज्वला भासमाना रुचिः कान्तिर्यस्य सः इति च तत्त्वार्थः । शृङ्गारः ख्यासक्तिरूपो विद्यते येषां ते शृङ्गारिणस्तेषां अग्रणीः अग्रेसरः । शृङ्गारलक्षणमुक्तं रससुधाकरे-“विभावैरनुभा. वैश्व स्वोचितैयभिचारिभिः । नीता सदस्यरसत रतिः शृङ्गार उच्यते ।" इति । स्त्रीपुरुषयोरन्योन्यासक्तिरूपेच्छाविशेषो रतिरित्युच्यते । तल्लक्षणमपि तत्रैव- "यून रन्योन्यविषयस्थायिनीच्छा रतिः स्मृता।" इति । अन्यत्रापि- "शृङ्गं हि मन्मथोद्वेदस्तदागमनहेतुकः । पुरुषः प्रमदाभूमिः शृङ्गार इति गीयते ।" इति । भरतोऽप्याह- "ऋतुमाल्यालंकारैः प्रियजनगान्धर्व-प्रणय-सेवाभिः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति । नयन-वदनप्रसादैः श्रुतिमधुर-वचो-धृति-प्रमोदैश्च । ललितैश्चाङ्गविहारैस्तदभिनयः संप्रयोक्तव्यः ।" इति । अत एव भुजङ्गानां विटानां भुजङ्गस्य शेषस्य च "भुजङ्गो विटसर्पयोः" । अन्वयं संबन्धं, अन्यत्र शयनरूपं च तन्वन् कुर्वन् , श्रीमति रङ्गस्थले रङ्गशालायां नाट्यस्थले इत्यर्थः । नित्यवासे सततनिवासे रसिकः, पक्षे श्रीरङ्गस्थले नाम क्षेत्रे नित्यवासरसिकः तत्र नित्यनिवासीत्यर्थः । असौ परः पत्युरन्यः जार इति यावत् । पूरुषः, पक्षे पर उत्तमः पुरुषश्च या प्राकाराणां पाषाणादिभित्तीनां शैवलादिवेष्टनानां च प्रकरस्य समूहस्य अन्तरे मध्ये स्थितिमती स्थितिशीला राज्ञः चक्रवर्तिभूपतेः पद्मिनी तल्लक्षणोपेता पत्नी, पक्षे राज्ञः चन्द्रस्य पद्मिनी कमलिनी “द्विजराजः शशधरः” इति कोशोक्तद्विजराजशब्दस्य राजेत्येकदेशेन ग्रहणम् । अथवा “सोमो वै राजा ब्राह्मणानाम्" इति श्रुतेश्चन्द्रस्य राजसंज्ञा । चन्द्रोदये विकासशालिनी कमलिनीत्यर्थः । तस्याः संनिधौ समीपे निःशकं निर्भयं यथा तथा चिरं बहुकालपर्यन्तं निद्राति । अहो इत्याश्चर्ये ॥ ४०२ ॥
एवं श्लेषगर्भितं भाषणं श्रुत्वा संतुष्टः सन्नाह विश्वावसुः-श्लेषावलम्बना इति । इमे 'श्यामोत्तुङ्ग-' इत्यादिना प्रतिपादिताः दोषाः श्लेषावलम्बनाः अर्थद्व
१ निःशङ्कः'. २ 'दोपावहाः'.
For Private And Personal Use Only