SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीवि०-सखे भवता भणितानां पदानां व्यासेनैव विरोधः समाधेयः १६९ इत्यग्रतः पश्यन्नञ्जलिं बवा--- श्रीरङ्गे शोभते यस्य श्रीरङ्गे शोभते च यः॥ नमोऽहं कलये तस्मै न मोहं कलये ततः ॥ ४०० ॥ किंचप्रणिपतिकर्मीकुर्मः फणिपतिभोगेशयं रथाङ्गशयम् ।। कारणमेकं जगतां वारणपतिभीतिवारणं ज्योतिः ॥ ४०१ ॥ कृशानु:-किमस्मिन्नपि महाभुजङ्गशायिनि क्रियन्ते त्वया प्रणामाः १ ॥ तथाहि रणदृष्टिं कवेरजासंगति' इति लियाभ्यां पदाभ्यां विरोधाभासोऽलंकारः, वास्तवार्थेन च तत्परिहारः । दूषणमपि श्लेषणैव नतु वास्तवार्थेनेति ज्ञेयम् ॥ ३९९ ॥ सख इति । हे सखे, भवता भणितानां उच्चारितानां पदानां शब्दानां विरोधः विरोधाभासः व्यासेनैव, न त्वन्येनेति सूचनार्थमेवशब्दः । समाधेयः समाधातुं शक्यः परिहारार्ह इत्यर्थः ॥ १६९ ॥ अहं तु केवलं भगवन्तं नमस्करोमीति सूचयनाह-श्रीरङ्ग इति । यस्य भगवतः अङ्गे वक्षःस्थले श्रीलक्ष्मीः शोभते, खयं च यः श्रीरङ्गे नाम क्षेत्रे च शो. भते । तस्मै श्रीरङ्गनाथाय अहं नमः नमस्कारं कलये करोमि । कुतः, ततः नमस्काराचरणात मोहं प्रपञ्चासक्तिरूपं अविचारं, न कलये न खीकरोमि ॥ ४०० ॥ किंच प्रणिपतीति । फणिपतेः सर्पराजस्य शेषस्य भोगे शरीरे "अहेः शरीरं भोगः स्यात्" इत्यमरः । शेते इति तथाभूतः तं शेषशायिनमित्यर्थः । “शयवासवासिष्वकालात्" इति सप्तम्या अलुक् । रथाङ्गं चक्र शये हस्ते यस्य सः तं, चक्रपाणिमित्यर्थः । “पञ्चशाखः शयः पाणिः" इत्यमरः । जगतां एकमद्वितीयं मुख्यमित्यर्थः । कारणं, वारणपतेर्गजेन्द्र स्य भीतिवारणं भयनिवारकं ज्योतिः तेजो. रूपं, प्रणिपतेः प्र-नि-इत्येतदुपसर्गपूर्वकस्य पतधातोः अर्थात् प्रणिपातस्य नमस्कारक्रियाया इत्यर्थः । कर्मीकुर्मः, ईप्सिततमरूपं कुर्मः । तं प्रति नमस्कुर्म इत्यर्थः ४०१ पुनरपि दूषयति-किमिति । अस्मिन् महांश्वासौ भुजङ्गः विटः महाभुजङ्गः शेषश्च "भुजङ्गो विट सर्पयोः” इति कोशान्तरम् । तस्मिन् शेते तस्मिन्नपि त्वया प्रणामा नमस्काराः क्रियन्ते किम् ? अहो शेषशायिभगवन्नमस्कारकरणान्महद्भाग्यं तवेति वास्तवोऽर्थः ॥ १७ ॥ १ 'धाम'. २ किमस्मिन् महाभुजङ्गे'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy