________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३४]
पदार्थचन्द्रिकाटीकासहिता।
किंचप्रातःप्रातः पयसि विमले पावने सह्यपुत्र्याः
नायंस्नायं सकलविषयत्यागिनो योऽगिनोऽमी ॥ वारंवारं भुजगशयनं लोचनाभ्यां पिबन्तः
क्षेमंक्षेमं क्षणवदखिलं कालमत्र क्षिपन्ति ॥ ३९८ ॥ कृशानुः-वयस्य विरुद्धमेव भाषसे ॥ १६८ ॥ सारङ्गदृष्टिं कथमुत्सृजभ्यः सा रङ्गदृष्टिः खदते मुनिभ्यः ॥
कवेरजासंगतिमुत्सिसृक्षोः कवेरजासङ्गरुचिः कथं स्यात् ? ॥३९९॥ तथोक्ताः प्रक्रान्तान् स्वसमुदाये वक्तुमुपक्रान्तांस्तान न्यायशास्त्राणि वहन्ति धारयन्तीति तद्वहाः । न्यायशास्त्रनिपुणा इत्यर्थः । हंसाः सन्ति । तथा लीलोद्याने क्रीडोपवने चरतीति तच्चरः पुंस्कोकिल: कोकिलपुरुषः । अत्र 'पुम् कोकिलः' इति स्थिते "पुमः खयि-" इति रुत्वे विसर्गे सत्वे 'अनुनासिकात् परः-" इत्युकारस्यानुखारे च सिद्धमिदम् । पतञ्जले: गिरा व्याकरणमहाभाष्यरूपया खेलति क्रीडति । तथा क्रीडामयूराः द्वैतं जीवेश्वरयोर्भेदः अद्वैत तयोरैक्यं च तयोः कथाः खसमुदाये संवादरूपा इत्यर्थः । यथा विदधति कुर्वन्ति, तथैव एताः सारिकाः शुकस्त्रियः तान्त्रिककारिकाः मीमांसाशास्त्रकारिकाः खैरं खच्छन्दं यथा तथा मुहु. वारं वारं परिपठन्ति उच्चारयन्ति ॥ ३९७ ॥
अथ तत्रत्यजनानां सदाचारं वर्णयति-प्रातः प्रातरिति । अत्र नगयाँ सकलविषयत्यागिनः ऐहिकसकलकामाद्युपभोगत्यागिनः, अत एव योगिनः योगाभ्यासिनः अमी जनाः प्रातः प्रातः प्रतिप्रातःकालं सह्यपुत्र्याः कावेर्याः नद्याः पावने पवित्रे विमले निर्मले च पयसि उदके, स्नायं स्नायं स्नात्वा नात्वा "आभीक्ष्ण्ये-" इत्यादिना पौनःपुन्यार्थे णमुल द्वित्वं च । वारं वारं निरन्तरं भुजगः शेषः शयनं यस्य तं श्रीरङ्गेशं, लोचनाभ्यां पिबन्तः अवलोकयन्तः सन्तः, क्षेमंक्षेमं निरन्तरकल्याणकारकं अखिलं सकलं कालं क्षणवत् क्षिपन्ति निर्यापयन्ति ॥ ३९८ ॥
अथ दूषयितुमुपक्रमते-वयस्येत्यादि ॥ १६८ ॥ विरुद्धत्वमेवाह-सारङ्गदृष्टिमिति । सारङ्गस्य हरिणस्येव दृष्टी नयने यस्याः सा तां स्त्रियं, जातावेकवचनम् । उत्सृजन्यः त्यजन्यः मुनिभ्यः योगिभ्यः सारङ्गदृष्टिः स्त्री, सा प्रसिद्धा रङ्गस्य रङ्गनाथस्य दृष्टिः दर्शनं च कथं स्वदते रोचते ? तथा कं ब्रह्म वेत्तीति कविः तस्य ब्रह्मविदः "को ब्रह्मणि शरीरे च” इति कोशः । अजायाः मायायाः मायामयसंसारस्येत्यर्थः । संगतिं संबन्धं, कवेरजायाः कावेर्याश्च संगति उत्सिसृक्षोः त्यक्तमिच्छोः कवेः पण्डितस्य अजासङ्गे मायासमागमे, कवेरजासङ्गे कावेरीसंबन्धे च रुचिः प्रीतिः कथं स्यात् ? अपि तु नैव भवेदित्यर्थः । अत्र 'सा
१ 'क्षामक्षेमाः', 'क्षामाक्षेमाः'. २ 'दृष्टीः'.
For Private And Personal Use Only