________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरी
एनां तरीतुमिह यत्नजुषः खशीर्ष
बद्धावदातवसनाः पथिका इवामी ॥ ३९५ ॥ .
अथ श्रीरङ्गनगरीवर्णनम् ३४.
किंचिदन्तरमुपसृत्य अधस्तादवलोक्य सहर्षम्सारङ्गडिम्भनयनानवकेलियोग्यनारङ्गमुख्यतरुपुष्कलनिष्कुटेयम् ।। श्रीरङ्गदिव्यनगरी प्रथते नयाब्धिपारंगतैर्बुधजनैः परिसेव्यमाना ॥३९६॥ निपुणं विभाव्य सशिरःकम्पम्
हंसा निष्कुटदीर्घिकावसतयः प्रक्रान्ततर्कावहा . लीलोद्यानचरः पतञ्जलिगिरा पुंस्कोकिलः खेलति । द्वैताद्वैतकथा यथा विदधति क्रीडामयूरा इह
खैरं तान्त्रिककारिकाः परिपठन्त्येता मुहुः सारिकाः ३९७ च्छन्तः उत्पद्यमानाः अच्छतमाः अतिखच्छाः ये गुच्छाः पुष्पपुजाः तैः लसन्ति शोभमानानि शिरांसि शाखाग्राणि येषां ते लसच्छिरस्काः तरवो वृक्षाः भान्ति शोभन्ते । कथंभूताः । इह अस्यास्तीरे एनां नदी तरीतुं पारं गन्तुं 'तृ प्लवन-तर. णयोः' इति धातोः “तुमुन्-ण्वुलौ-" इत्यादिना तुमुनि इटि च तस्य "वृतो वा" इति दीर्घः। यत्नजुषः प्रयत्नं कुर्वाणाः सन्तः अमी वृक्षाः स्वशीर्षे निजमस्तके बद्धानि जलस्पर्शभयेन वेष्टितानि अवदातानि शुभ्राणि वसनानि परिधानवस्त्राणि यैस्तथाभूताः पथिकाः पान्था इव, प्रतिभान्तीति संबन्धः । उत्प्रेक्षालंकारः ॥३९५॥ - सारङ्गेति । सारङ्गाडिम्भस्य हरिणशिशोरिव नयने नेत्रे यासां तासां हरिणनयनानां स्त्रीणां नवकेलीनां नवीनशृङ्गारक्रीडानां "हेला लीलेल्यमी हावाः क्रियाः शृङ्गा. रभावजाः । द्रव-केलि-परीहासाः क्रीडा लीला च नर्म च।" इत्यमरः । योग्याः नारङ्गा नारङ्गवृक्षा मुख्या येषु ते ये तरवो वृक्षास्तैः पुष्कलाः परिपूर्णाः निष्कुटाः गृहारामा यस्यां सा तथाभूता, तथा नयाः न्यायशास्त्राण्येव, नीतिशास्त्राणि वा अब्धिः समुद्रः तस्य पारंगतैः परतीरप्राप्तैः, संपूर्णनयशास्त्रनिपुणैरित्यर्थः । बुधजनैर्विद्वज्जनैः परिसेव्यमाना इयं पुरो दृश्यमाना श्रीरङ्गसंज्ञा दिव्यनगरी प्रथते प्रकाशते ॥३९६॥
किंच अत्र क्षेत्रे पक्षिणोऽपि विविधशास्त्रनिपुणा इत्याह-हंसा इति । इह श्रीरङ्गनगयों निष्कुटेषु गृहोद्यानेषु या दीर्घिका वाप्यस्तासु वसतिर्निवासो येषां ते
१ 'नग'. २ 'परिभूष्यमाणा', परिहृष्यमाणा'. ३ 'तो अहो', 'तर्कच्छटा'. ४ 'युधा'.
For Private And Personal Use Only