________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ३३ ]
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिका टीकासहिता ।
कृ० - साक्षेपम् —
परिशोभिताम्रपार्श्वा मध्येमहितरङ्गराजतः स्फुरिता ॥
कथमिव दधाति कीर्ति कावेरी कनकनिम्नगेत्येषा ॥ ३९३ ॥ विश्वावसुः - आपातदूषणमिदं निरूप्यमाणमस्या गुण एव स्यात्पश्य तावदेतस्या रामणीयकम् ॥ १६७ ॥
-
पीताम्बरालंकृतमध्यभागा कहारमालाकमनीयवेणी ||
सह्याद्रिकन्या जनकस्य गेहात्पत्युः समीपं व्रजति प्रसन्ना ॥ ३९४ ॥ पुनैर्निर्वर्ण्य
उद्गच्छंदैच्छतमगुच्छलसच्छिरस्कास्तीरद्वयेऽपि तरवः प्रतिभान्त्यमुप्याः ||
२१७
अत्राक्षिपति कृशानुः– परिशोभीति । परितः आसमन्तात् शोभिनौ ताम्रमय पार्श्वं यस्याः सा, परितः आसमन्तात् शोभिताः फल- पुष्पसंपन्नत्वेन विराजिताः आम्राः आम्रवृक्षाः ययोस्तथाभूतौ च पार्श्वों यस्याः सा इति च मध्ये मध्यभागे महिताभ्यां महद्भ्यां रङ्गं त्रपु " त्रपु पिच्चटम् । रङ्गवङ्गे अथ पिचुः " इत्यमरः । राजतं रजतसमूहश्च ताभ्यामिति ततः स्फुरिता, मध्ये महितेन पूज्येन रङ्गराजतः श्रीरङ्गराजेन च, सार्वविभक्तिकस्तसिः । स्फुरिता शोभिता एतादृशी एषा कावेरी नदी कनकनिम्नगा सुवर्णनदी इति कीर्ति कथमिव दधाति धारयति ? व्यथैवेयं कीर्तिरस्या इति भावः ॥ ३९३ ॥
समाधत्ते - आपातेति । इदं पूर्वोक्तं निरूप्यमाणं त्वया दीयमानं आपातदूपणं अतात्त्विकं श्लेषमूलकमितियावत्, यद्दूषणमित्यर्थः । तदस्याः कावेर्याः गुण एव स्यात् । तावत्तस्मात् तत्त्वतः एतस्या रामणीयकं रमणीयत्वं पश्य ॥१६७॥
तदेवाह - पीताम्बरेति । इयं सह्याद्रिकन्या कावेरी पीतं च तत् अम्बरं वस्त्रं तेन, पीतकौशेय वस्त्रेणेत्यर्थः । पीताम्बरेण विष्णुना च " पीताम्बरोऽच्युतः शार्ङ्ग" इत्यमरः । अस्मिन् पक्षे च बहुव्रीहिः समासः । अलंकृतः मध्यभागो मध्यप्रदेशो नितम्बप्रदेशश्च यस्याः सा, कहाराणां रक्तकमलानां मालया पतया च कमनीया सुन्दरा वेणी केशपाशः प्रवाहश्च यस्याः सा तथाभूता "वेणी सेतु प्रवाहयोः । देवताडे केशबन्धे” इति हैमः । प्रसन्ना प्रसन्नान्तः करणा स्वच्छजला च सती, जनकस्य पितुः, सह्याद्रेश्च गेहात् गृहात्, प्रदेशाच्च पत्युः भर्तुः, समुद्रस्य च समीपं व्रजति गच्छति ॥ ३९४ ॥
किंच उद्गच्छदिति । अमुष्याः कावेर्यास्तीरद्वयेऽपि, स्थिता इति शेषः । उद्ग
१ 'मध्यमितरङ्ग', 'मध्यमतोरङ्ग'. २ 'निरूप्यमाणाया अस्या' ३ ' एनां परमरमणीयाम्'. ४ 'निरूप्य' ५ ' उच्चतम '.
१९
For Private And Personal Use Only