________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
विश्वगुणादर्शचम्पूः
[ कावेरी
यन्ती । शान्तनवास्पदतया गाङ्गेयतरङ्गिणीति संज्ञामन्वर्थयन्ती । संमज्जनदुरितहराऽपि नमज्जनदुरितहरा निराकृतपथिकश्रान्तिः सर्वन्तीयं कंदलयति चक्षुषोरमन्दमानन्दम् ॥ १६६ ॥
प्रहसति भवशोषकरी भवेन परितोषिता सुवर्णनदी ॥ दुर्वर्णरैचिरफेनैः सह्यसुता जाह्नवीमसह्यसुताम् ॥ ३९१ ॥
पुनः सश्लाघम् -
स्वर्णवन्तं विदुः कान्तं रामां हेमापगामिमाम् || दाम्पत्यमनयोरेतदनुरूपं विशोभते ॥ ३९२ ॥
प्रयत्नमन्तरा संपादनेन, समुद्रे च प्रेमातिशयेन चेत्यर्थः । कवेः पण्डितस्य आत्मजा कवेरस्य सह्याद्रेः आत्मजा कन्येति च प्रसिद्धिं ख्यातिं सार्थयन्ती यथार्थीकुर्वन्ती । शन्तनोरपत्यं शान्तनवो भीष्मः तस्य, शान्तानां शमयुक्तानां नवाः स्तुतयश्च तासां च आस्पदतया स्थानतया योग्यतया च गाङ्गेयतरङ्गिणी भीष्मजननी गङ्गेत्यर्थः । पक्षे गाङ्गेयं सुवर्णे तन्मयी तरङ्गिणीति च " स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् | तपनीयं शातकौम्भं गाङ्गेयं भर्म कर्बुरम् । " इत्यमरः । संज्ञां नाम अन्वर्थयन्ती अर्थयुक्तां कुर्वन्ती । संमज्जनेन स्नानमात्रेण दुरितहरापि पापहरापि, मज्जनदुरितहरा न भवति इति विरोधः, नमतां नमस्कुर्वतां जनानां दुरितहरा इत्यर्थेन च तत्परिहारः । निराकृता निवारिता पथिकानां पान्थानां श्रान्तिः श्रमो यया सा इयं कावेरी नाम स्रवन्ती नदी चक्षुषोर्ने त्रयोः अमन्दं बहुलं आनन्दं कन्दलयति उत्पादयति ॥ ११६
पूर्वस्मिन् गद्ये गङ्गासाम्यं प्रतिपादितं कावेर्याः, अधुना गङ्गाया अप्याधिक्यं प्रतिपादयति उत्प्रेक्षया - प्रहसतीति । भवस्य संसारस्य शोषकरी नाशकरी भवेन शिवेन संसारेण च परितोषिता, सह्यस्य सह्याद्रेः सुता कन्या तत्रोत्पन्नेत्यर्थः । सुवर्णा शोभन वर्णयुक्ता, सुवर्णा कनकमयी च नदी कावेरी, दुर्वर्णै: कृष्ण ताम्रादिरागैः, दुर्वर्णमिव रजतमिव च “दुर्वर्ण रजतं रूप्यम्" इत्यमरः । रुचिराः मिश्रिताः सुन्दराव फेनाः तैः असह्यस्य निन्द्यत्वात् सोढुमशक्यस्य " अकारो वासुदेवः स्यात्" इति कोशात् अस्य विष्णोः सह्यां मनोहरत्वात् सहनीयां लालनीयामिति यावत् । सुतां कन्यां जाह्नवीं गङ्गां प्रहसति उपहसत्येवेति । श्लेषमूलिका गम्योत्प्रेक्षेयम् ॥ ३९१ ॥
पुनरपि सश्लाघमाह - स्वर्णवन्तमिति । इमं कान्तं पतिं स्वर्ण कनकमस्यास्तीति तद्वन्तं तं प्रसिद्धं अर्णवं समुद्रं च विदुः जानन्ति । इमां कावेरीं हेमापगां सुवर्णनदीं रामां कान्तां च विदुः जानन्ति । अत एव एतत् अनयोर्जायापत्योः दांपत्यं अनुरूपं योग्यं विशोभते विशेषेण राजते ॥ ३९२ ॥
१ 'सज्जन, ' ' ससज्जन' २ ' स्रवन्ती चक्षुषोरमन्दं कन्दलयत्या मोदम् ' ३ 'रुचि: '.
•
For Private And Personal Use Only