________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २८ ] पदार्थचन्द्रिकाटीकासहिता ।
अथ बाहानदीवर्णनम् २८.
किंचिद्दक्षिणतोऽभिक्रम्यमोहादिदोषरहितां तटवासिदेहि
व्यूहाय कामपि मतिं महती दिशन्ती ॥ खाहाकरोति दुरितानि शुभप्रवाहा
बाहानदी बुधसमूहकृतावगाहा ॥ ३५५ ॥ अस्याश्चोत्तरतीरे श्रोत्रियोत्तंसनिवासयोग्यः समग्रगुणोऽसावग्रहारः संलक्ष्यते पश्य ॥ १५३ ॥ कर्णानन्दकरस्फुरन्मधुकरव्याहारबाहापगा
रोषःशाखिमरन्दतुन्दिलपयःकल्याणकुल्यावृतः ॥ आत्रेयान्वयविद्वदध्वरहविर्गन्धानुबन्धार्पित
क्षेमो भात्यरशाणिपाल इति हि ग्रामोऽभिरामो भुवि॥३५६॥ अथ बाहानदी वर्णयति-मोहेति । तटयोस्तीरयोर्वासिनां वसतिं कुर्वतां देहिनां प्राणिनां व्यूहाय समूहाय, मोहादिदोषरहितां, आदिशब्देन लोभादीनां ग्रहणम् । कामप्यनिर्वाच्यां, महतीं स्वर्गापवर्गादिमहाफलप्रदामित्यर्थः । मतिं ज्ञानं दिशन्ती ददती । बुधसमूहकृतावगाहा पण्डितजनवृन्दकृतनाना बाहानदी शुभप्रवाहा मङ्गलकरप्रवाहा, दुरितानि पापानि खाहाकरोति विनाशयतीत्यर्थः ॥ ३५५ ॥ ___ अस्या इति । अस्याः बाहानद्याः उत्तरे तीरे श्रोत्रियोत्तंसानां अमिहोत्रिश्रेष्ठानां निवासयोग्यः समग्राः संपूर्णा गुणाः कुशसमित्समृध्यादयो यस्मिन् असौ अग्रहारः ब्राह्मणखामिको ग्रामः । अस्तीति शेषः ॥ १५३ ॥
कर्णेति । कर्णानन्दकराः श्रोत्रयोरानन्दजनकाः स्फुरन्तश्च मधुकराणां व्याहाराः उक्तयो गुजार रूपा इत्यर्थः । येषु तेषां बाहापगायाः रोधसि तटे ये शाखिनो वृक्षास्तेषां संबन्धिभिः मरन्दैस्तुन्दिलस्य परिपूर्णस्य पयसः जलस्य कल्याणाभिः कुल्याभिः कृत्रिमसरिद्भिः 'कालवा' इति महाराष्ट्रभाषाप्रसिद्धरित्यर्थः । वृतः वेष्टितः। अत्रेच्नेरयं आत्रेयः स चासौ अन्वयः वंशः येषां तेषां विदुषां अध्वरेषु यज्ञेषु हविषां पुरोडाश-वपादीनां गन्धस्य अनुबन्धेन संबन्धेन अर्पितं दत्तं क्षेमं कुशलं यस्य सः । अभिरामः मनोहरः भुवि 'अरशाणिपाल' इति तन्नामकः ग्रामः भाति प्रकाशते । हि प्रसिद्धौ। अयं कवेरग्रहारः केनचिद्राज्ञा विद्याचरणादिसंतुष्टेन समर्पित इति बोध्यम् ॥ ३५६ ॥
१ 'शुभप्रवाहै'.
For Private And Personal Use Only