________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HClary
विश्वगुणादर्शचम्पू:-
[क्षीरनदी
मम दुग्धनदी धनदीकृतमजन्मानवा नवाम्भोमिः ॥ बुधजातनुता तनुतां तनुतां तनुतापहद्धनाघानाम् ॥ ३५२ ॥
कृ०-भवत्वेवमथाप्यस्याः क्षीरतरङ्गिण्या विधिना कृता विरसता ॥ १५१ ॥
कालुष्यलेशविधुरा मधुराऽपि पयोनदी ॥
रोचते साधवे युक्ता नो चेल्लवणसिन्धुना ॥ ३५३ ॥ वि०-गुणमपि भणसि दोषतया ॥ १५२ ॥ यतःक्कचन समागतसिन्धुनि धुनीजले साधुनि स्नानम् ॥ पङ्कविलोपं कलयति संघटयति श्रियमिति स्मरन्ति बुधाः॥३५४॥
सुन्दर-मूढयोः” इति कोशः । शुद्धां निर्मलां बुद्धिं जनयति उत्पादयतीति तज्जननी दुग्धापगा क्षीरनदी दृश्यते ॥ ३५१ ॥
ममेति । नवानि च तानि अम्भांसि उदकानि च तैर्धनदीकृताः पूर्वं दरिद्राः सन्तः कुबेरवद्धनाढ्याः कृताः मजन्तः खस्यां अवगाहमानाः मानवा यया सा, बुधानां जातेन समूहेन नुता स्तुता, तनोः शरीरस्य तापहृत् संतापही, दुग्धनदी क्षीरनदी, मम सबन्धिनां घनाघानां महापापानां तनुतां क्षीणत्वं, तनुतां करोतु, पापानि विनाशयत्वित्यर्थः ॥ ३५२ ॥
भवत्विति । एवं त्वदुक्तप्रकारं भवतु अस्तु, अथापि अस्याः क्षीरतरङ्गिण्याः क्षीरनद्याः विधिना दैवेन विरसता रसरहितता अनास्खाद्यतेत्यर्थः । कृता ॥ १५१॥
कालुष्येति । कालुष्यस्य मालिन्यस्य लेशेन लवेनापि विधुरा रहिता सत्यपि, मधुराऽपि पयोनदी क्षीरनदी, लवणसिन्धुना क्षारसमुद्रेण युक्ता नो चेन भवेद्यदि तर्हि साधवे सज्जनाय रोचते लवणसंसृष्टक्षीरपानस्य धर्मशास्त्रनिषिद्धत्वादिति भावः॥३५३॥
वचनेति । समागतः संगतः सिन्धुः समुद्रः येन तस्मिन्, अत एव साधुनि पवित्रतया शोभने क्वचन कस्मिन्नपि धुनीजले नद्याः उदके स्नानं पङ्कस्य पापस्य कर्दमस्य च विलोपं नाशं कलयति संपादयति । श्रियं संपत्तिं च संघटयति उत्पादयति । इत्युक्तप्रकार, बुधाः स्मरन्ति जानन्ति । क्वचित् 'धियं' इति पाठान्तरं, तत्पक्षे उत्तमां बुद्धिमित्यर्थः । अत्र च "समुद्रगानदीनानं नराणां शुद्धबुद्धिदम्" इति स्मृतिरप्यनुकूला ॥ ३५४ ॥
१ "कृद्धनाघानां'. २ 'नीरसता'. ३ 'सिन्धुजले'. ४ 'थिय'.
-
-
-
-
For Private And Personal Use Only