________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [बाहानदीकिंच
साध्वग्रे-सरयूपेतः साकेतनगरश्रियम् ॥
अग्रहारो विभात्येष रघुनाथाभिरक्षितः ॥ ३५७ ॥ किंचिद्विमानमुन्नमय्य नद्योः पार्श्वद्वयमवलोक्य सश्लाघम्
चारुगुणैः सन्मणिभिर्जुष्टा बाहानदी-पयखिन्योः ॥
उपकूलमग्रहारा उदग्रहारा इवावनेर्भान्ति ॥ ३५८ ॥ कृ०-अमून् ग्रामान् कथंकारमग्रहारान् प्रचक्षते ॥ . सुवृत्तमुक्तारहिता यदेनानाश्रिता जनाः ॥ ३५९ ॥ विश्वावसुः-सखे भवता स्तुतिरेवैषां भङ्गयन्तरेण कृतेति मृप्यामि तुष्यामि च ॥ १५४ ॥
साध्विति । साधुषु मध्ये अग्रेसराणां श्रेष्ठानां आत्रेयगोत्राणां यूपैः यज्ञपशुबन्धनस्तम्भैः इतः प्राप्तः, पक्षे साधु अग्रे सरय्वा नाम नद्या उपेतः, रघुनाथेन श्रीरघुनाथदीक्षितेन कवेः पित्रा, श्रीरामेण च अभिरक्षितः एष अग्रहारः साकेतस्य अयो. ध्यायाः श्रियं शोभा वहति धारयति ॥ ३५७ ॥ किंचिदिति । उन्नमय्य ऊर्ध्वं नीत्वा, नद्योः बाहा-क्षीरनद्यो:
चार्विति । चारवः गुणाः दया-दाक्षिण्यादयः सूत्राणि च येषां तैः सतां साधूनां मणिभिः श्रेष्ठैः, पक्षे सद्भिरुत्तमैः मणिभी रत्नैश्च जुष्टाः युक्ताः बाहानदी-पयखिन्योः बाहानदी-क्षीरनद्योः कूलानां तीराणां समीपे इत्युपकूलं, सामीप्येऽव्ययीभावः। "कूलं रोधश्च तीरं च" इत्यमरः । अग्रहाराः, अवनेर्भूमेः उदग्राः उन्नताः हारा इव "उच्च-प्राशूनतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने।” इत्यमरः। भान्ति प्रकाशन्ते॥३५८॥
अमूनिति । अमून् नदीद्वयतीरस्थान् प्रामान् कथंकारं कथमित्यर्थः । अग्रहारान् प्रचक्षते वदन्ति ? बुधा इति शेषः । यद्यस्मादेनान् ग्रामान् अता जनाः, सुवृत्ताभिः सुन्दरवर्तुलाकृतिभिः मुक्ताभिमौक्तिकैः रहिताः, सुवृत्तैः साध्वाचारैः मुक्तैर्विगतसंसारवन्धनैश्च जनैः अरहिताः संगताच, "वृत्तोऽधीतेऽप्यतीतेऽपि वर्तुले. ऽपि मृते वृते । वृतेऽन्यलिङ्गं वा क्लीबे छन्दश्चारित्रवृत्तिषु” इति मेदिनी । सन्तीति शेषः ॥ ३५९ ॥
सख इति । भवता भङ्गयन्तरेण अन्यथा रीत्या व्याजस्तुतिप्रकारेणेति यावत्। एषां जनानां स्तुतिः प्रशंसैव कृता, इति हेतोः मृष्यामि सहे, तुष्यामि संतुष्टश्च भवामि ॥ १५४ ॥
१'वहत्येष'.
For Private And Personal Use Only