________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २९] पदार्थचन्द्रिकाटीकासहिता। १९७
अथ तुण्डीरमण्डलवर्णनम् २९. . . .
अथ सर्वतस्तुण्डीरमण्डलमवलोकयन् सहर्षातिरेकम्-. .
वयस्य स्फुटमस्य तुण्डीरमण्डलस्य पश्यतु भवान् पावनत्वं रमणीयत्वं च ॥ १५५ ॥ . तीरे तीरे स्फुरति सरितामग्रहारोऽत्र भूया
नग्र्यो वर्गो धरणिमरुतामग्रहारेऽग्रहारे ॥ वर्गे वर्गे धरणिमरुतां वर्धते साधु यज्ञो
यज्ञे यज्ञे श्रवणसुभगः स्तोत्रशस्त्रानुघोषः ॥ ३६० ॥ किंचतुण्डीरमण्डलनिवासिषु दुग्धसिन्धु
डिण्डीरखण्डनिभकीर्तिषु पण्डितेषु ॥ आप्यायमानमखिलैरॅविगीतमेत
द्रोचेत धूतदुरितं चरितं न कस्मै ॥ ३६१ ॥ अथेति । तुण्डीरमण्डलमिति देशविशेषनाम, भाषायां 'तोण्डमनाडु' इति टीकान्तरे दृश्यते
वयस्येति । हे वयस्य, अस्य पुरोवर्तिनः 'तुण्डीरमण्डलस्य रमणीयत्वं सौन्दर्य पावनत्वं पवित्रत्वं च, स्फुटं स्पष्टं यथा तथा पश्यतु भवान् ॥ १५५ ॥
तीरे तीर इति । सरितां बाहानद्यादीनां अत्रास्मिन् तीरे तीरे प्रतितीरं भूयान् बहुशः अग्रहारः स्फुरति प्रकाशते । अग्रहारेऽग्रहारे प्रत्यग्रहारं च अय्यः पूज्यः धरणिमरुतां ब्राह्मणानां वर्ग: वृन्दं स्फुरति । वर्गे वर्गे च यज्ञः ज्योतिष्टोमादिः साधु यथा तथा वर्धते । यज्ञे यज्ञे च, सर्वत्र वीप्सायां द्विर्भावः। श्रवणयोः कर्णयोः सुभगः मनोज्ञः स्तोत्र-शस्त्राणां मन्त्रविशेषाणां अनुघोषः पाठशब्दश्च वर्धते ॥ ३६० ॥
तुण्डीरेति । तुण्डीरमण्डले निवसन्ति ते निवासिनस्तेषु दुग्धसिन्धोः क्षीरसमुद्रस्य डिण्डीरखण्डैः फेनखण्डैः निभा तुल्या, तद्वनिर्मलेति यावत् । कीर्तिर्येषां तेषु पण्डितेषु आप्यायमानं व्याप्नुवानं, तैः क्रियमाणमिति यावत् । अखिलैः वेद-शास्त्रपुराणादिग्रन्थैः अविगीतं अनिन्दितं अत एव धूतदुरितं प्रक्षालितदोष, एतच्चरितं सत्कर्म कसै न रोचेत ? सर्वस्मा अपि रोचेतैवेत्यर्थः । “रुच्यर्थानाम्-" इ. त्यादिना चतुर्थी ॥ ३६१॥
१ 'मण्डलस्य रामणीयकम्'. २ 'शस्त्रादिघोषः'. ३ 'अवगीत'.
-
-
-
-
For Private And Personal Use Only