SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३६] पदार्थचन्द्रिकाटीकासहिता। वि०-ईदृशं दूषणं गुणग्राहिणामभिमतमेव ॥ १८९ ॥ अथ चोलदेशवर्णनम् ३६. इत्यन्यतो विमानं प्रस्थाप्य सानन्दम् अमी खलुव्यालाधिपेशयशुभस्थलभूषितेलाः क्ष्वेडाशनायतनसान्द्रतरान्तरालाः ॥ चोला विभान्ति पवमानविहारवेला दोलायमानसहकारनवप्रवालाः ॥ ४४६ ॥ निपुणं विभाव्य सोत्कण्ठम् नागवल्लीमतल्लीभिः सुर्मुखीभिरिवादरात् ॥ परिरब्धाः प्रमोदन्ते क्रमुकाः कामुका इव ॥ ४४७ ॥ खेदे । गङ्गाधरे शिवे स्वैस्तोयैरुदकैः अभिषिच्यमाने सति इयं वयं तापं मनस्तापं जहाति त्यजति । तत्र गङ्गासंबन्धादिति भावः ॥ ४४५ ॥ ईदृशमिति । ईदृशं गुणोत्कर्षव्यञ्जकं दूषणं गुणग्राहिणामभिमतमेवेष्टमेव ॥१८९॥ व्यालाधिपति । व्यालानां सर्पाणामधिपे शेषे शेते इति व्यालाधिपेशयो विष्णुस्तस्य शुभैः मङ्गलप्रदैः स्थलैः स्थानैः भूषिता अलंकृता इला भूमिर्येषां ते तथाभूताः, यद्देशे भगवतो विष्णोर्बहूनि स्थानानि सन्तीति भावः । तथा श्वेडाशनः विषभक्षकः शंकरः "वेडस्तु गरलं विषम्" इत्यमरः । तस्य आयतनैः मन्दिरैः सान्द्रतराणि अतिनिबिडानि अन्तरालानि मध्यभागा येषां ते तथोक्ताः पवमानस्य वायोः विहारवेलासु वहनकालेषु दोलायमानाः दोलावदाचरन्तः, चञ्चला इत्यर्थः । सहकारस्य आम्रवृक्षस्य नवप्रवाला नूतनपल्लवा येषु ते "प्रवालोऽस्त्री किसलये वीणादण्डे च विद्रुमे ।" इति विश्वः । चोलाः देशाः विभान्ति विराजन्ते ॥४४६ ॥ नागवल्लीति । किंच अस्मिन् देशे इति शेषः । नागवल्लीमतल्लीभिः प्रशस्तनागवल्लीभिः आदरात् प्रेमातिशयातू सुमुखीभिः स्त्रीभिः इव परिरब्धाः वेष्टिताः आलिङ्गिताश्च क्रमुकाः पूगवृक्षाः कामुका इव प्रमोदन्ते आनन्दयन्ति ॥ ४४७ ॥ १ 'कामिनीभिः'. २१ For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy