________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२.४२
विश्वगुणादर्शचम्पू:
इतश्च भवानवेक्षताम् — अभ्रंलिहानहह पश्य मरुद्वृधाया drive: पृथुफलानिह नारिकेलान् ॥
आगच्छते सवितृमण्डलमाश्रिताय
देवार्य भक्तित इवात्तनवोपहारान् ॥ ४४८ ॥ मम तु एवं मतिः
लोलद्दीर्घदला बृहत्तरफला वातोल्ललडूलिभि
रछन्नाः प्रांशुतमाः स्फुरन्ति पुरंतो ये नारिकेलद्रुमाः ॥ धूमाखादनपात्रधारिण इमे द्राघिष्ठचञ्चज्जा
[ चोलदेश
भस्मोद्धूलितमूर्तयो विवसनाः पाखण्डिभेदा इव ॥ ४४९ ॥ सहासमन्यतो निर्दिश्य -
पद्मिन्याकर्षोचितगन्धप्रसॆवान् प्रपश्य पुन्नागान् ॥
अभ्रंलिहानिति । मरुद्वृधायाः कावेर्याः रोधसि तीरे रुहन्ति उत्पद्यन्ते इति रोधोरुहः अभ्रं आकाशं लिहन्ति स्पृशन्तीति तथाभूतास्तान्, अत्युच्चानित्यर्थः । पृथूनि महान्ति फलानि येषां तानू नारिकेलान् तालवृक्षान् इह देशे पश्यावलोकय अहहेत्यानन्दे । कथंभूतान् । सवितृमण्डलं सूर्यविम्बं आश्रिताय आगच्छते देवाय भगवते नारायणाय, समर्पयितुमिति शेषः । भक्तितः भक्त्या आत्ताः स्वीकृताः नवाः नूतनाः उपहारा उपायनानि यैस्तथाभूतानिव स्थितान् ॥ ४४८ ॥
ममेति । मम तु एवं मतिरभिप्राय:---
लोलदिति । लोलन्ति वातेन चलन्ति दीर्घाणि दलानि पर्णानि येषां ते, बृहत्तराणि अतिमहान्ति फलानि येषां ते तथोक्ताश्र वातेन उल्हलन्तीभिरूर्ध्वं गच्छन्तीभिर्धूलिभिः छन्नाः आच्छादिताः प्रांशुतमाः अतिशयोन्नताः नारिकेलद्रुमाः तालवृक्षाः ये पुरतः अग्रभागे स्फुरन्ति विलसन्ति, त इमे नारिकेलद्रुमाः द्राधिष्ठाः दीर्घतमाः चञ्चन्त्य - चञ्चलाच जटा येषां ते धूमाखादनस्य पात्रं धारयन्तीति तथाभूताः भस्मना उद्धू'लिताः मूर्तयः शरीराणि येषां ते तथोक्ताः विवसनाः दिगम्बराश्च पाखण्डिनां नास्ति - कसंन्यासिनां भेदा इव स्फुरन्ति प्रकाशन्ते । अत्र 'नागवली - ' इत्यादिश्लोकत्रयवर्णनेन चोलदेशस्य बहुलाम्र-नारिकेल- कमुकादिवृक्षसंपन्नत्वं सूचितम् ॥ ४४९ ॥ सहासमिति । अत्रास्य पूर्व विश्वावसुरिति दृश्यते । तदत्र निष्प्रयोजनमेवेति भाति । तस्यैव भाषणस्य प्रचलितत्वात् । एवं सति केनचित् तत्समर्थनार्थ 'इयं चासूयाविरहेण यथार्थोक्तितया कृशानुकर्तव्याक्षेपमन्तरेणैव विषयान्तरप्रक्रान्ततयैकस्यैवोक्तिप्रक्रमेऽपि पुनरुक्तिर्न दोषाय भवति' इति यदुक्तं तदप्यविचाररम
1
१ 'नाथाय २ ' परितो'. ३ 'पाषण्ड'. ४ ' प्रसरानू'.
For Private And Personal Use Only