________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
-वर्णनम् ३६ ] पदार्थचन्द्रिकाटीका सहिता ।
अतनूग्राशुगकलनात्संप्राप्तानधिकरेणुसंपर्कम् || ४५० ॥
पश्य
Acharya Shri Kailassagarsuri Gyanmandir
पार्श्वतो वीक्ष्य
अहो महोन्नता जनपदानाममीषामभिजातता ॥ १९० ॥
-
ज्योतिष्टोमस्तोम उक्थ्योऽतिरात्रो - Sप्याप्तोर्यामः षोडशी वाजपेयः ॥ प्रौढा यज्ञाः पौण्डरीकादयो ये चोलेप्वेते चित्रमोपासनन्ति ॥ ४५१ ॥
णीयमेव । अग्रिमश्लोकमारभ्य तद्भाषणसमाप्तिपर्यन्तं नैव कुत्राप्यसूया, सर्वत्र यथार्थोक्तिरेव विद्यते । विषयान्तरप्रक्रान्तिरपि नैव पूर्वोक्तवर्णनस्यैवापि सत्त्वात् । तस्मादियं पुनरुक्तिरेव सा च दोषायैवेत्यलमप्रकृतेन ॥
२४३
पद्मिनीति | पद्मिनीनां कमलिनीनां स्त्रीणां च आकर्षे आकर्षणे स्पर्धायामिति भावत् । अतिशय सौरभ्यद्योतनार्थमिदम् । वशीकरणे च उचितानि योग्यानि गन्धप्रसवानि सुगन्धिपुष्पाणि गन्धस्य मदस्य च प्रसव उत्पत्तिश्च येषां येभ्यश्च तान् अतनोर्महतः अत एवोग्रस्य भयंकरस्य च आशुगस्य वायोः अतनोर्मदनस्य च उग्राणामसह्यानां आशुगानां बाणानां च "आशुगौ वायु-विशिखौ " इत्यमरः । कलनात् संबन्धात् अधिकस्य रेणोः धूल्याः संपर्क स्पर्श, करेणुषु गजस्त्रीषु चेत्यधिकरेणु इति च । अस्मिन् पक्षे विभक्त्यर्थेऽव्ययीभावः । संप्राप्तान् पुन्नागान् एतन्नामकवृक्षान् पुरुषगजांश्च प्रपश्यावलोकय । यद्वा पद्मिनीनां पद्मिनीजातिस्त्रीणां आकर्षोचितानि वशीकरणयोग्यानि गन्धप्रसवानि सुगन्धपुष्पाणि येषां तान् अधिकः रेणुः रजो यासां तासामधिकरेणूनां स्त्रीणां संपर्क स्पर्श संभोगरूपमिति यावत् । संप्राप्तान् पुरुषेषु नागान् श्रेष्ठान् तांश्च प्रपश्येति तृतीयार्थोप्यत्र संभवति ॥ ४५० ॥
अहो इति । अमीषां चोलानां जनपदानां देशानां महोन्नता अभिजातता रमणीयता च अस्तीति शेषः ॥ १९० ॥
ज्योतिष्टोमेति । ज्योतिष्टोमानां नाम यज्ञविशेषाणां स्तोमः समूहः, उक्थ्यः, अतिरात्रः, आप्तोर्यामः, षोडशी, वाजपेयश्चापि । एते सर्वेपि यज्ञविशेषाः क्रमात् पञ्चचतुस्त्रि द्वयेक रात्रकालसाध्याः । प्रौढाः बहुकालसाध्यत्वान्महान्तः, पौण्डरीकादयश्च ये प्रसिद्धा यज्ञाः सन्ति, त एते चोलेषु देशेषु औपासनन्ति औपासनवत् गृह्यामिहोमवत् आचरन्ति । तद्वन्नित्यं भवन्तीत्यर्थः । आचारे क्विप् । एतचित्रमा श्चर्यम् ॥ ४५१ ॥
१ 'ज्योतिष्टोमः साङ्ग उवथ्यो ऽतिरात्रोप्या'. २ 'आप्तोर्यामाः’. ४ 'नित्यमेव क्रियन्ते'.
For Private And Personal Use Only
३ ' वा'.