________________
Shri Mahavir Jain Aradhana Kendra
२४४
किंच—
www. kobatirth.org
विश्वगुणादर्शचम्पूः
Acharya Shri Kailassagarsuri Gyanmandir
गृहे गृहे पश्य कृताग्निहोत्राः शास्त्रौषधोलादो विदोषाः ||
[ चोलदेश
पुण्योत्तराः पण्डितपुण्डरीकाः पुनन्ति वेदैकधना जगन्ति ॥ ४५२ ॥ कु० - एतद्विषयविषया लोघा शाखानुशाखं न कर्तव्या । एतद्देशे वसतां सतामप्यनेकप्रकारा दुराचारा उपलभ्यन्ते ॥ १९१ ॥ स्वान्ति प्रातरधिस्रवन्ति विधिवत्संध्यादि कर्माचरन्त्यम्मीनादधते मखान्विदधते शास्त्राणि चाधीयते ॥ अभ्यर्चन्ति सुरान्पैरार्ध्यकुसुमैर्चन्ति किंचातिथी -
नन्नैः किंतु पुरातनैस्तनुममी पुप्यन्ति दुष्यन्त्यतः ॥४५३ ॥
गृहे गृह इति । शास्त्राण्येवौषधानि तैः उल्लाघानि नीरोगाणि हन्दि अन्त:करणानि येषां ते, विविधशास्त्राभ्यासेन निर्मलान्तःकरणा इत्यर्थ: । उल्लाघ इति " अनुपसर्गात् फुल-क्षीब-" इत्यादिनिपातनात् साधुः । “ वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ।" इत्यमरः । “उल्लाघो निपुणे हृटे शुचि-नीरोगयोरपि ।" इति हैमश्च । अत एव विदोषाः पापरहिताः वेदा एव एकं मुख्यं धनं संपादनीयं द्रव्यं येषां ते पुण्योत्तराः अतिशयपुण्यवन्तः पण्डितानां पुण्डरीका: श्रेष्ठाः गृहे गृहे प्रतिगृहं कृतं अग्निहोत्रं यैस्ते तथाभूताश्च सन्तः जगन्ति पुनन्ति पवित्रयन्ति पश्य ॥ ४५२ ॥
एतदिति । एषः विषयः चोलदेशः विषयः प्रतिपाद्यो यस्याः सा श्लाघा प्रशंसा शाखानुशाखं तत्रत्यान् प्रातिखिकरूपेणोपादाय न कर्तव्या । यतो यस्मात् एतद्देशे चोलदेशे वसतां वासं कुर्वतां सतां विदुषामपि अनेकप्रकारा नानाविधाः दुराचारा उपलभ्यन्ते दृश्यन्ते ॥ १९१ ॥
के ते दुराचारा इत्याकाङ्क्षायामाह - स्नान्तीति । अमी चोलदेशवासिनो जनाः प्रातः स्रवन्त्यां कावेर्या नद्यामित्यधिस्रवन्ति, विभक्त्यर्थेऽव्ययीभावः । "स नपुंसकम्” इति नपुंसकत्वम् । स्नान्ति स्नानं कुर्वन्ति, संध्यादि कर्म च विधिवत् शास्त्रोकविधिमनुसृत्य आचरन्ति कुर्वन्ति, अग्नीन् गार्हपत्यादीन् आदधते स्थापयन्ति सततमग्निहोत्रं पालयन्तीत्यर्थः । मखान् दर्श-पूर्णमासादीन् विदधते कुर्वन्ति, शास्त्राणि धर्मप्रतिपादकानि पूर्वमीमांसादीनि च अधीयते अभ्यस्यन्ति, सुरान् विष्णुशिवादिदेवान् परार्ध्यकुसुमैः सुगन्धिपुष्पैः अभ्यर्चन्ति पूजयन्ति किंच अतिथी
१ ' औषधोल्लास'. २ 'वाघानुश्लाघा न कर्तव्या' ३ ' अनर्घ्य ४ ' अञ्चन्ति '. 'पुष्णन्ति'.
For Private And Personal Use Only