________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३६] पदार्थचन्द्रिकाटीकासहिता। २१५
पुनर्निरूप्य सविस्मयम्कष्टमेतद्देशवासिनीनां विलासिनीनां नित्यमेव लज्जाव्युत्पत्तिराहित्यम् ।। तथाहि
अपि हन्त चोलवासस्थैर्यवतीनां चिराय युवतीनाम् ॥
अपकञ्चुलिकाबन्धौ कुचकुम्भाविति विरुद्धमुपलब्धम् ॥४५४॥ किंच
अगूढगाढम्तनकुम्भिकुम्भमम्भोजदम्भोदयजैत्रनेत्रम् ॥ चित्ते निधत्ते बत चोलदेशस्त्रैणं प्रवीणं रतिकान्तबाणम् ॥४५५॥ अपि चनवार्तवमहोत्सवे ननु सहस्रशः संगता
गृहाद्वहिरशङ्कितं गदितकामगाथाशताः ॥ नपि अर्चन्ति सत्कुर्वन्ति । किंतु स्वयं पुरातनैः पर्युषितैरनैः तनुं शरीरं पुष्यन्ति पुष्टीकुर्वन्ति । अतः पर्युपितान्नभक्षणात् दुष्यन्ति दोषयुक्ता भवन्ति । शास्त्रे तस्य निषिद्धत्वादिति भावः ॥ ४५३ ॥
किंच कष्टमिति । एतद्देशवासिनीनां विलासिनीनां स्त्रीणां नित्यमेव सततमेव, अनेन सुरताद्युपभोगस्थले तथा करणं न दोषायेति सूचितम् । लज्जायाः व्युत्पत्तिनिं तस्या राहित्यं अभाववत्त्वमिति यत् तत् कष्टम् ॥ १९२ ॥
तदेवाह-अपीति । चोलस्य कूर्पासकस्य "चोल: कूर्षासकोऽस्त्रियां" इत्यमरः । वाससः वस्त्रस्य च, चोले देशे वासस्य निवासस्य च स्थैर्य स्थिरत्वं विद्यते यासां तथाभूतानां 'वासस्थैर्य-' इत्यत्र "खपरे शरि वा विसर्गलोपो वक्तव्यः" इति पक्षे विसर्गलोपः । युवतीनां स्त्रीणामपि कुचौ स्तनौ कुम्भाविव तौ चिराय बहुकालपर्यन्तं अपगतः कञ्चलिकायाः बन्धो बन्धनं ययोस्तौ इति एतत् विरुद्धं इतरजन विरुद्धं उपलब्धं दृष्टम् । हन्तेति खेदे ॥ ४५४ ॥
अगूढेति । अगूढी अनाच्छादितौ गाढौ कठिनौ च स्तनौ कुचौ कुम्भिनः हस्तिनः कुम्भौ गण्डस्थले इव यस्य तत् अम्भोजस्य कमलस्य दम्भोदयस्य गर्वोत्पत्तेः जैत्रे जेतृणी नेत्रे यम्य तत् चोलदेशसंबंधि स्त्रैणं स्त्रीसमूहः, प्रवीणं रतौ कुशलं सत् , मोहने कुशलं वा, अस्मिन् । पक्षे रतिकान्तबाणस्यैतद्विशेषणम् । रतिकान्तस्य मदनस्य वाणं चित्ते निधत्ते नितरां धारयति । सततस्तनानावृतत्वात्कामासक्तमिव भातीति भावः । वतेति खेदे ॥ ४५५ ॥
नवार्तवेति । नवं प्रथमप्राप्तं यत् आर्तवं स्त्रीरजः तत्संबन्धी यो महानुत्सवः १ 'देशवासिनीनां नित्यमेव'. २ 'न धत्ते, 'विधत्ते'.
For Private And Personal Use Only