________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता । चातुर्योदार्यलक्ष्मीविहरणशरणे सद्गुणौघान् बभूवे
देवे श्रीवेङ्कटेशे न जिगणयिषता केन वा ग्लानवाचा ॥२०१॥ किंच
समग्रा हि हरेर्वेदैः समग्राहि गुणावलिः ॥
प्रत्यक्षेऽपि परत्वेऽस्य प्रत्यक्षेपि च संशयः ॥ २०२ ॥ अहो महोन्नतस्याप्यस्य सौलभ्यं कनककुसुमस्य सौरभ्यमिव रसिकेभ्य एव खदते ॥ ८० ॥
तत्तेजो विद्धि मामकम् ॥' इति गीतावचनात् प्रसिद्धम् । कल्याणानि निःश्रेयसान्येव अम्भोजानि कमलानि तेषां कल्ये प्रातःकाले “प्रत्यूषोऽहर्मुखं कल्य उषःप्रत्युषसी अपि" इत्यमरः । निरवधिनिःसीमो यः करुणासारः दयासारस्तस्य कल्लोलराशौ महोमिनिधौ समुद्रे इत्यर्थः । "अथोर्मिषु । महत्सूलोल-कल्लोलौ” इत्यमरः । चातुर्य कर्मसु कौशलं च औदार्य दातृत्वं च उदारस्य भावः औदार्यमिति विग्रहः । "उदारो दातृ-महतोः" इत्यमरः । तयोर्लक्ष्म्याः समृद्धेः विहरणशरणं क्रीडागृहं तस्मिन् , देवे खप्रकाशे श्रीवेङ्कटेशे विषये, सतां प्रशस्तानां गुणानां ओघान् समूहान् । "सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहिते च सत् ।" इत्यमरः । जिगणयिषता गणनां कर्तुमिच्छता । गणयतेः खार्थिकण्यन्ताचौरादिकात्सनि शतृप्रत्ययः । केन पुरुषेण ग्लानवाचा श्रान्तवचनेन न बभूवे। को वा पुरुषः श्रान्तवान बभूवेत्यर्थः । भवतेर्भावे लिट् । अत्र सर्वत्र ‘गाम्भीर्येकावलम्बे' इत्यादौ तादात्म्येन वर्णनाद्रूपकालंकारः । " तद्रूपकमभेदो यः” इत्यादितल्लक्षणात् ॥ २०१॥
समग्रेति । हरेः समग्रा हि सकलैव गुणानां आवलिः पतिः वेदैः समग्राहि सम्यग्गृहीता । तथा अस्य प्रत्यक्षे दर्शने सति, परत्वे अप्रत्यक्षे विषये संशयोऽपि प्रत्यक्षेपि प्रतिक्षिप्तः । निराकृत इति यावत् । अत्र पूर्वार्धे ग्रहेः उत्तरत्र च क्षिपेः कर्मणि लुङि " चिण भाव-कर्मणोः" इति चिण् ॥ २०२ ॥
अहो इति । अहो इत्याश्चर्ये । महोन्नतस्य अतीवोच्चस्याप्यस्य वेङ्कटेश्वरस्य सौ. लभ्यं सुलभत्वं सुखेन प्राप्यत्वं, कनकवर्णस्य कुसुमस्य पुष्पस्य कनकमयपुष्पस्येति वा । सुरभेः सुगन्धेः भावः सौरभ्यं सुगन्धित्वं सुन्दरत्वं वा “सुरभिर्हेनि चम्पके। जातीफले मातृभेदे रम्ये चैत्र-वसन्तयोः । सुगन्धौ” इति हैमः । रसिकेभ्य एव खदते रोचते ॥ ८०॥
१ 'दधाने', अयं पाठः अस्मत्संपादितादर्शपुस्तके उपलभ्यते, परं तस्मिन् अध्याहारकरणत्रासात् स नादृतः । २ 'मौनभाजा'.
For Private And Personal Use Only