________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:-
[वेङ्कटगिरि
पश्यप्रचण्ड विश्वकण्टकप्रखण्डनैकपण्डितः
पतङ्गमण्डले वसन् य एष पाण्डवप्रियः ॥ अकुण्ठरीतिकः प्रसन्नपुण्डरीकलोचनः __स कुण्डलीन्द्रभूधरप्रकाण्डमण्डनायते ॥ २०३ ॥ अवलोकय तावदुरगवरधरणीधरशिरोमणेश्चक्रपाणेरैतितरसुकरवरनिकरवितरणकौशलमतिपेशलम् ॥ ८१ ॥ मूकारब्धं कमपि बधिराः श्लोकमाकर्णयन्ति
श्रद्धालुस्तं विलिखति कुणिः श्लाघया वीक्षतेऽन्धः ॥ अध्यारोहत्यहह सहसा पङ्गुरप्यद्रिशृङ्गम्
सान्द्रालेस्याः शिशुभरणतो मन्दमन्दन्ति वन्ध्याः ॥ २०४ ।। प्रचण्डेति । प्रकर्षेण चण्डा भयंकरा ये विश्वकण्टकाः कण्टक इव जगत्रासोत्पादकाः कंसादयस्तेषां प्रकर्षेण समूलं खण्डने एको मुख्यः पण्डितः कुशलबुद्धियुकः, अपि च पाण्डवप्रियः । एतद्विशेषणद्वयेन “ परित्राणाय साधूनां-" इत्यादि भगवद्गीतोक्तं प्रतिज्ञावचनं स्मारितम् । यः एषः श्रीनारायणः पतङ्गमण्डले सूर्यबिम्बे " पतङ्गौ पक्षि-सूर्यौ च " इति, " बिम्बोऽस्त्री मण्डलं त्रिषु " इति चामरः।वसन् निवसतीत्यर्थः । अकुण्ठा निरन्तरं वर्तमाना रीतिः सत्परिपालनासद्दलनादिरूपा यस्य सः । प्रसन्ने विकसिते पुण्डरीके कमले इव लोचने नयने यस्य सः स एव पूर्वोक्तः कुण्डलीन्द्रभूधरप्रकाण्डस्य प्रशस्तशेषशैलस्य " प्रशंसावचनैश्च" इति समासः। 'कुण्डलीन्द्र ' इत्यादिपदस्योपसर्जनत्वात्पूर्वनिपातः । “मतल्लिका मचर्चिका प्रकाण्डमुद्ध-तल्लजौ । प्रशस्तवाचकानि ” इत्यमरः । मण्डनायते भूषणवदाचरति । तत्र नित्यं निवसतीत्यर्थः । पञ्चचामरं वृत्तम् । "लघुर्गुरुर्निरन्तरं भजेत पञ्चचामरम्" इत्यादितल्लक्षणात् ॥ २०३ ॥
अवलोकयेति । उरगवरधरणीधरस्य श्रीशेषाचलस्य शिरोमणे: भूषणभूतस्य चक्रपाणे: श्रीविष्णोः, अतिपेशलं सुन्दरं अतितरसुकरं अतिशयसुलभं वरनिकराणां वरसमुदायानां वितरणस्य अर्पणस्य कौशलं चातुर्य तावदवलोकय पश्य ॥ ८१॥
वरार्पणकौशलमेवोपपादयति-मूकारब्धमिति । बधिराः कर्णरहिताः मूकैः अवाग्भिः वक्तत्वशक्तिरहितैरिति यावत् । “ अवाचि मूकः" इत्यमरः । आरब्धं पठितं कमपि ईश्वरगुणवर्णनपरं श्लोकं पद्यं " पद्ये यशसि च श्लोकः " इत्यमरः । आकर्णयन्ति शृण्वन्ति । तं च श्लोकं कुणि: छिन्नहस्तः श्रद्धालुः श्रद्धायुक्तः सन् " स्मृहि-गृहि-पति-दयि-निद्रा-तन्द्रा-" इत्यादिना आलुच् प्रत्ययः । विलिखति । अ.
१ रनितर', २ 'सान्द्रालस्याः शिशुभरणतो मन्दमायाति वन्ध्या'.
For Private And Personal Use Only