________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [वेङ्कटगिरिप्रियसहचरी लक्ष्मीः स्थानं सहस्रवसुः स्वयम्
कुवलयपतिः श्यालो रत्नाकरः श्वशुरो हरेः । तदपि हरति द्रव्यं पूर्णो जगत्पतिरेष यत्
तदिह भजतां कर्तुं नृणामुदग्रमनुग्रहम् ॥ २० ॥ अखिलहेयप्रत्यनीकानन्तकल्याणगुणैकतानस्य विश्वनाथस्य श्रीनिवासाभिधानस्य परब्रह्मणो गुणार्णवामृतकणानां गर्णनायामनिपुणधिषणा धिषणादयोऽपि ॥ ७९ ॥
गाम्भीर्यैकावलम्बे गरिमनिवसतौ कान्तिकुल्यातटाके ___कल्याणाम्भोजकल्ये निरवधिकरुणासारकल्लोलराशौ ।। 'तातेल्यामच्य-' इत्यादि दूषणं निराकरोति-प्रियेत्यादि । यस्य हरेः श्रीवेङ्कटाधिपतेः श्रीनिवासस्य प्रिया चासौ सहचरी च सा प्रियपत्नीत्यर्थः । स्वयं साक्षात् लक्ष्मीः, स्थानं निवासस्थलं च सहस्राणि वसवः धनानि किरणाश्च यस्य सः भगवान् सूर्यनारायण इत्यर्थः । "देवभेदेऽनले रश्मौ वसू रत्ने धने वसु" इत्यमरः । कुवलयानां कमलानां पतिश्चन्द्रश्च कु-वलयस्य भूमण्डलस्य पतिः सार्वभौम इति वा। श्यालः पत्नीभ्राता, रत्नाकरः समुद्रः श्वशुरः भार्यापिता । अस्तीति सर्वत्र योज्यम् । एवं पूर्णः सन्नपि अत एव जगतः पतिश्चायं अस्ति, तथापि एषः द्रव्यं भक्तप्रार्थितं हरतीति यत् , तत् इह लोके भजतां, नृणां मनुष्याणां उदग्रं महान्तमनुग्रहं कर्तुमेव। तदुक्तं श्रीमद्भागवते दशमस्कन्धपूर्वार्द्ध सप्तविंशेऽध्याये भगवता श्रीकृष्णेनेन्द्रं प्रति"मामैश्वर्य-श्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि संपन्यो यस्य चेच्छाम्यनुग्रहम्" इति ॥२०॥
अखिलेति । अखिलाः संपूर्णा ये हेयप्रत्यनीका दोषनाशका अनन्तकल्याणगुणास्तेषां एकतानस्य मुख्याधिष्ठानस्य, विश्वनाथस्य जगदधिपतेः श्रनिवासाभिधानस्य श्रीनिवासनाम्नः परब्रह्मणः गुणार्णवस्य गुणसमुद्रस्य अमृतकणानां सुधाबिन्दूनां गणनायां संख्याने विषये, धिषणो बृहस्पतिरादिर्येषां ते देवा ऋषयश्च । “बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः” इत्यमरः । अनिपुणधिषणाः अकुशलबुद्धयः बुद्धिसामर्थ्यहीना इत्यर्थः । भवन्तीति शेषः ॥ ७९ ॥
किंच-गाम्भीर्यति । गम्भीरस्य भावो गाम्भीर्य प्रापञ्चिकसुखदुःखविकारराहित्यं तस्य एकावलम्बो मुख्याश्रयस्तस्मिन् , गरिम्णः गौरवस्य निवसतौ निवासस्थाने । कान्तिरूपा या कुल्या अल्पा नदी "कुल्याल्पा कृत्रिमा सरित्" इत्यमरः । तस्यास्तटाके सरोवरे आश्रये इति यावत् । भगवति हि सकलते. जसामाश्रयत्वं । “यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ १ 'विश्वनिदानस्य'. २ 'वर्णने'.
For Private And Personal Use Only