________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १५] पदार्थचन्द्रिकाटीकासहिता। ११५
वि०-किमरे करुणानिधये वेङ्कटाचलपतयेऽप्यसूयसि ? शृणु तावत् ॥ ७८ ॥
नियन्ता जन्तूनां निखिलजंगदुत्पादविभव__ प्रतिक्षेपैः क्रीडन् परमपुरुषः पन्नगनगे ॥ परत्वे सौलभ्यप्रकटनकृते वेङ्कटपतिः ___ कृपासिन्धुः कां का नेनु मनुजलीलां न तनुते ॥ १९८ ॥ किंचकिमप्युपादाय दिशन्नभीष्टं कृत्स्नं जनेभ्यः पतिरञ्जनाद्रेः ॥ कृष्णावतारीयकुचैलसंपत्प्रदानरीतिं विवरीवरीति ॥ १९९ ।।
किमिति । अरे, करुणानिधये दयासागराय वेङ्कटाचलपतये श्रीशेषशैलाधिपतये श्रीनिवासायापि, असूयसि गुणेषु दोषानाविष्करोषि ?। "क्रुध दुहेा-' इत्यादिना चतुर्थी । शृणु तावत् वक्ष्यमाणमित्यर्थः ॥ ७८ ॥
नियन्तेति। जन्तूनां प्राणिनां नियन्ता अन्तर्यामित्वेन प्रेरयिता, निखिलस्य संपूर्णस्य जगतः उत्पादः उत्पत्तिः विभवः पालनं प्रतिक्षेपो लयस्तैः क्रीडन , अत एव परमपुरुषः कृपासिन्धुः वेङ्कटपतिः श्रीनिवासः, खस्य परत्वे सर्वोत्कृष्टत्वे मनोवाचामगोचरत्वे वा सत्यपि, सौलभ्यस्य भक्त्या सुलभत्वस्य प्रकटनकृते प्रकटनाथ, पन्नगनगे शेषशैले, कां कां मनुजलीलां मनुष्यचेष्टां न तनुते ननु न करोति ? अपि तु सर्वामपि करोत्येवेत्यर्थः ॥ १९८ ॥
'इष्टप्राप्तिमनिष्टभङ्गमपि-'इत्यादिनोक्तं दूषणं परिहरनाह-किमपीति । अयमञ्जनाद्रेः शेषशैलस्य पतिः जनेभ्यः भक्तलोकेभ्यः सकाशात्,किमपि स्वल्पं यत्किचिदपि वस्तु उपादाय गृहीत्वा, तेभ्यः कृत्स्नं यावत्तैःप्रार्थितं तावत्सर्वं अभीष्टं इच्छितं दिशन् अर्पयन् , कृष्णावतारे भवा कृष्णावतारीया सा चासौ कुचैलसंपत्प्रदानरीतिश्च तां, कुचैलः सुदामा नाम ब्राह्मणः कृष्णस्य सखा आसीत्। तस्मै संपदर्पणस्य पद्धतिमित्यर्थः। तद्वृत्तं हि श्रीमद्भागवते उत्तरार्द्ध अशीत्येकाशीतितमाध्याययोः । तदित्थम्-कुचैलस्त्वतिदारिययुक्तो भार्यया प्रार्थितश्च सन् मुष्टिमात्रपृथुकान् गृहीत्वा कृष्णसंदर्शनार्थ द्वारकां गतः, तत्र च कृष्णेनातीव सत्कृतः तस्माच पृथुकमुष्टिं गृहीत्वा महेन्द्रतुल्यमैश्वर्य तस्मै समर्पितवान् इति । विस्तरस्तु भागवतादेवावगन्तव्यः । विवरीवरीति अत्यन्तं प्रकटयतीत्यर्थः । विपूर्वात् 'वृञ् वरणे इत्यस्मात् यङ्लुकि लटि रूपम् ॥१९९॥
१ 'दुत्पत्ति'. २ 'इह'.
For Private And Personal Use Only