________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११४
विश्वगुणादर्शचम्पू:- [वेङ्कटगिरिइष्टप्राप्तिमनिष्टभङ्गमपि वा संप्रार्थ्य भक्त्या जनै
र्यातव्यमिति प्रतिश्रुतमभूद्रव्यं तदाप्ते फले ॥ ते दास्यन्ति न चेत्स्वयं भयमसावुत्पाद्य तेषां पुनः __कृत्स्नं सार्थहिरण्यहृत्पद इदं गृह्णाति वृद्ध्या समम् ॥ १९६ ॥ किंचतातेत्यामन्त्र्य कंचिद्वनभुवि तृषितस्तोयबिन्दून्ययाचे
कस्याप्युच्चैस्तटाकं खनत इह गिरौ हन्त मृद्भारमूहे ॥ दत्तां केनापि सूनावलिमधिमुकुटं मृन्मयीमेव दधे
सोऽयं भूयः श्रुतिज्ञैर्भुवनपतिरिति स्तूयते ध्यायते च ॥१९७॥ किमरे इति । अरे विश्वावसो ! केवलमर्थपरं द्रव्यासक्तममुं देवं, एवं, पूर्वोतप्रकारेण, किं कुतो हेतोरनुसंधत्से ध्यायसि ? ॥ ७७ ॥
अर्थपरत्वमेवाह-इष्टप्राप्तिमिति। जनैः सेवकलोकैः इष्टप्राप्ति अनिष्टभङ्गं संकटनाशं, वा समुच्चयार्थकः । तदुभयमपि संप्रार्थ्य, भक्त्या यत् द्रव्यं दातव्यं देयमिति प्रतिश्रुतं प्रतिज्ञातं अभूत् , अथ फले प्रार्थितप्राप्तिरूपे आप्ते प्राप्ते सति, तत् पूर्वप्रतिज्ञातं ते जनाः स्वयं न दास्यन्ति नार्पयिष्यन्ति चेत् , असौ देवः तेषां जनानां भयं व्याध्यादिरूपं उत्पाद्य, तेभ्यः पुनः सार्थे यथार्थ हिरण्यं धनं, अथवा हिरण्यकशि, नामैकदेशे नामग्रहणात् । हरति गृह्णातीति तथाभूतं पदं वाचकः शब्दः यस्य तथाभूतः । पुनः इदं द्रव्यं वृद्ध्या अधमर्णदेयमूलाधिकद्रव्येण समं कृत्स्नं संपूर्णमपि गृह्णाति । दीनदयालोर्भगवत एतदनुचितमित्यर्थः ॥ १९६ ॥
किंच यद्ययं सर्वशक्तिमान् स्यात्तदेदमत्यन्तानुचितमित्याह-तातेतीति । योऽयं वनभुवि अरण्यभूमौ तृषितः सन् कंचिदपि पुरुषं 'हे तात!' इति सकरुणमामन्त्र्य संबोध्य, तोयबिन्दून उदककणान् ययाचे याचितवान्। तथा इह गिरौ शेषाचले कस्यापि पुरुषस्य तटाकं खनतः सतः, उच्चैरतिमहान्तं, हन्तेति विषादे । मृद्भारं मृत्तिकासमूह ऊहे धृतवान् । तथा केनाप्यज्ञातकुलगोत्रेण दत्तां समर्पितां मृन्मयीमेव मृत्तिकाप्रचुरामेव । प्राचुर्ये मयद । सूनावनिं पुष्पमालां अधिमुकुटं मुकुटे इत्यर्थः । दधे धृतवान् । सः अयं भूयः वारंवारं श्रुतिज्ञैः वेदविद्भिः भुवनपतिरित्युक्त्वा स्तूयते, ध्यायते चेत्यपि । एतस्मात्तु दरिद्रसादृश्यं प्रतीयते इति भावः । एतत्कथात्रितयमपि श्रीवेङ्कटाचलमाहात्म्यतोऽवगन्तव्यम् । अत्र वाच्यया निन्दया परमकारुणिकत्व-भक्तवात्सल्यादिरूपस्तुतिप्रतीतेाजस्तुतिरलंकारः ॥ १९७ ॥
For Private And Personal Use Only