________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १५]
पदार्थचन्द्रिकाटीकासहिता ।
११३
यतः
वैकुण्ठेऽपि निरुत्कण्ठमकुण्ठविभवं महः ॥
तदत्र चित्रचारित्रं रमते रमया समम् ॥ १९४ ॥ इति सानन्दं ध्यायति ।
कृ०–हन्त व्यपेतविषयान्तरव्यासङ्गं त्वदन्तरङ्गं देव एवास्मिन्ननुभवति दृढसङ्गम् ॥ ७५ ॥ वि०-सखे सत्यमेवोदितं भवता ॥ ७६ ॥ दधती चिराय सुदतीमुरःस्थले तदतीतसीम ददती सुखं सताम् ॥ रसिकस्य चित्तमिह कस्य देवता प्रतिपन्नपन्नगनगा न गाहते।।१९५॥ कृ०–किमरे केवलमर्थपरममुं देवमनुसंधत्से ॥ ७७ ॥ कुत एतदित्यत आह-वैकुण्ठे इति । यत् अकुण्ठः लोकत्रयेपि प्रतिबन्धरहितः विभवः नित्यानन्दादिरूपं ऐश्वर्य, दुष्टनिराकरण-सज्जनपालनादिरूपसामर्थ्य वा यस्य, तत् महः वैष्णवं तेजः, वैकुण्ठेऽपि निरुत्कण्ठं आसक्तिरहितं सत् , अत्र शेषशैले चित्रं चारित्रं यस्य तथाभूतं च सत् , रमया लक्ष्म्या समं सहितं रमते क्रीडति ॥ १९४॥
हन्तेति । हन्तेल्याश्चर्ये । व्यपेतः निर्गतः विषयान्तरस्य एतद्देवताध्यानादन्यविषयस्य व्यासङ्गः विशिष्टग्रहो यस्य तत् त्वदन्तरङ्गं तव चित्तं, अस्मिन् देवे श्रीनिवासे एव दृढसङ्गं अत्यन्तासक्ति अनुभवति ॥ ७५ ॥
अतीवानन्देनाह विश्वावसुः-सखे इति । हे सखे, भवता सत्यमेव उदितं कथितम् ॥ ७६ ॥
कुत इति चेत्तदाह-दधतीति । चिराय चिरकालं उरःस्थले वक्षस्थले सुष्ठ शोभनाः दन्ताः यस्याः सा तां लक्ष्मीमित्यर्थः । “संख्या-सुपूर्वस्य" इत्यनुवर्तमाने "वयसि दन्तस्य दत" इति दत्रादेशः । "उगितश्च" इति डीप । दधती धारयित्री, तथा सतां साधूनां तत् प्रसिद्ध अतीता निर्गता सीमा मर्यादा यस्मात् तत् निरवधीत्यर्थः । सुखं ददती अर्पयित्री । अभ्यस्तत्वानुमभावः । सतामित्यत्र षष्ठी प्रामादिकी । संप्रदानत्वाच्चतुर्थ्या विधानात् । प्रतिपन्नः स्वीकृतः पन्नगनगः शेषशैलः यया सा देवता श्रीनिवासरूपा, इह कस्य रसिकस्य ब्रह्मरसविदः । “रसो वै सः" इति श्रुतेर्ब्रह्मरसस्यैव मुख्यरसत्वम् । चित्तमन्तः करणं न गाहते न प्रविशति ? अपि तु सर्वस्यापि प्रविशतीत्यर्थः ॥ १९५ ॥ इदानीं कैश्चित् प्रतिश्रुताप्रदाने सा देवता कुप्यतीति प्रसिद्धिपुरस्कारेणाह१ 'सह'. २ 'सत्यमेव विदितम्'.
For Private And Personal Use Only