________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५
-वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता ।
प्रगल्भवालिजीमूतप्रोत्सारणसमीरणः ॥ सुग्रीवराज्यसामग्री सुदिनं काननौकसाम् ॥ ६४ ॥ दुर्निरोधधुनीनाथजाड्यरोगचिकित्सकः ।। दुष्टनक्तंचरस्तोमधूमकेतुविजृम्भणम् ॥ ६५ ॥ कुम्भकर्णमदाम्भोधिस्तम्भने कुम्भसंभवः ॥ बलीयोरावणप्राणपाषाणदलनाशनिः ॥ ६६ ।। विभीषणस्य साम्राज्यविश्राणनसुरद्रुमः ॥ अयोध्यापुरनारीणामक्ष्णोरत्यद्भुतोत्सवः ॥ ६७ ॥
प्रगल्भेति । प्रगल्भः प्रौढश्चासौ वालिजीमूतः वालिरूपो मेघः “घन-जीमूतमुदिर-" इत्यमरः । तस्य प्रोत्सारणे विनाशे समीरणः वायुः “समीर-मारुत-मरुजगत्प्राण-समीरणाः" इत्यमरः । सुग्रीवस्य राज्यस्य सामग्री साहित्यसमृद्धिः काननमरण्यमेवौकः स्थानं येषां ते काननौकसः संततं वननिवासिनो वानरा इत्यर्थः । तेषां सुदिनं उत्साह दिवसः ॥ ६४ ॥
दुनिरोधेति । दुनिरोधः रोद्धुमशक्यश्चासौ धुनीनाथः समुद्रः तस्य जडस्य मूढस्य भावः जाज्यं मूढत्वं "गुणवचन-ब्राह्मणादिभ्यः-" इति भावार्थे ध्यञ् । अथवा डलयोः सावर्णात् जलस्य भावः जाल्यमिति विग्रहः। तदेव रोगः तस्य चिकित्सकः वैद्यः । “भिषग्वैद्यौ चिकित्सके” इत्यमरः। खसामर्थ्यप्रदर्शनपूर्वकं सागरस्य 'अहमेव महान् दुस्तरश्च' इत्यादिरूपं जाड्यमपाहरदित्यर्थः । तथा दुष्टाः ये नक्तंचरा राक्षसास्तेषां स्तोमस्य समूहस्य धूमकेतुः उत्पातसूचकं नक्षत्रं, तद्वत् विजृम्भणं भयप्रदर्शनम् ॥ ६५ ॥
कुम्भकर्णेति । कुम्भकर्णस्य मद एव अम्भोधिः समुद्रः तस्य स्तम्भने प्रतिटम्भे नाशने इत्यर्थः । कुम्भसंभवः अगस्त्यः । बलीयानतिशयेन बलवान् यो राव. णप्राणः स एव पाषाणः शिला तस्य दलने भेदने अशनिः वज्रम् । “-वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः। शतकोटिः खरुः शम्बो दम्भोलिरशनियोः।" इत्यमरः ॥ ६६ ॥
विभीषणेति । विभीषणस्य रावणभ्रातुः स्वभक्तस्य सम्राजो भावः साम्राज्यं मण्डलाधिपत्यमिति यावत् । “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्" इत्यमरः । तस्य विश्राणने दाने "-दानमुत्सर्जनविसर्जने । विश्रा. णनं वितरणम्" इत्यमरः । सुरद्रुमः कल्पतरुः । अयोध्यापुरनारीणां अयोध्यानगरवासिस्त्रीणां अक्ष्णोः नयनयोः अत्यद्भुतः अतिचमत्काररूपः उत्सवः आनन्दः॥६॥
१ 'महाम्भोधि'. २ 'दलने', 'दलनापविः'.
For Private And Personal Use Only