________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[अयोध्या
विश्वगुणादर्शचम्पू:- विराधाख्यदुरातङ्कविद्रावणमहौषधम् ॥ ६० ॥ खर-दूषणकिम्पाकखण्डनैकपरश्वधः ॥ दुर्मोचनीचमारीचकीचकप्रबलानलः ॥ ६१ ॥ गृध्रराजस्य नाकादिलोकाक्रमणवर्तनी ॥ कबन्धमयकासारकवलीकरणातपः ॥ ६२ ॥ शबरीचित्तकुमुदशारदज्योत्निकोदयः ॥ पावमानियशःकाशप्रकाशशरदागमः ॥ ६३ ॥
पुनरागच्छतः मार्गे समन्तानिरोधः तद्रूपो यो दावाग्निः तस्य परिमार्जने शमने निर्झरः जलप्रवाहः । " उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः । " इत्यमरः । विराधः इति आख्या नाम यस्य सः विराधनामकराक्षसरूप इति यावत् । दुर्दुष्ट आतङ्को रोगः तस्य विद्रावणे विनाशने महौषधम् ॥ ६ ॥
खरेति । खरश्च दूषणश्च तौ एतदाख्यौ राक्षसविशेषौ । एतदुपलक्षणम् । तेन त्रिशिरादिचतुर्दशसहस्रराक्षसग्रहणम् । तद्रूपा ये किम्पाका विषवृक्षाः तेषां खण्डने तोडने एकपरश्वधः असहायः परशुः “द्वयोः कुठारः खधितिः परशुश्च परश्वधः” इत्यमरः । एकेनैव कस्यापि साहाय्यमन्तरा सर्वेषां विनाशः कृत इति द्योतनार्थमेक इति विशेषणम् । दुर्मोचः मोक्तुमशक्यः वधं विनेत्यूह्यम् । नीचश्च यो मारीचः राक्षसस्तद्रूपो यः कीचको वेणुस्तस्य प्रबलः प्रचण्डः अनल: अग्निः ॥ ६१ ॥
गृध्रेति । गृध्राणां पक्षिविशेषाणां राजा गृध्रराजः जटायुः तस्य "राजाहः-" इत्यादिना टच समासान्तः । नाकः वर्ग: आदिः प्रथमो येषां ते ये लोकाः ब्रह्मवैकुण्ठादयः तेषामाक्रमणस्य गमनस्य वर्तनी एकपदी मार्गः “वर्तन्येकपदीति च" इत्यमरः । कबन्धमयः कबन्धनामकराक्षसरूपः यः कासारः सरः तस्य कवलीकरणे असने शोषणे इति यावत् । आतपः सूर्यकिरणरूपः ॥ ६२॥
शबरीति । शबर्याः कस्याश्चित् किरातकुलजाया भक्तायाः चित्तमेव कुमुदं चन्द्रविकासि कमलं तस्य शारदज्योस्निकोदयः शरत्कालीनचन्द्रिकोदयः । तथा पवमानस्यापत्यं पुमान् पावमानिर्हनूमान् “अत इञ्" इत्यपत्यार्थे इञ् । तस्य यशः कीर्तिरेव काशानि काशकुसुमानि 'मोळ' इति महाराष्ट्रभाषाप्रसिद्धदर्भकुसुमानीति यावत् । -"ऽथो काशमस्त्रियाम् । इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजः" इत्यमरः। तेषां प्रकाशे उदये शरदागमः शरतुप्रादुर्भावः । अत्र 'पावमानं शीलमस्येति पावमानि अतिशयेन पवित्रं यत् यशः तदेव काशकुसुमं तस्य प्रकाशे विकसने शरदागमः इत्यपि व्याख्येयम्' इत्यत्रैव मुद्रितपुस्तके टिप्पणं दृश्यते, तदपि साधु ॥ ६३ ॥
१ 'दुर्मोचनीय'. २ 'कल्हार'.
For Private And Personal Use Only