________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५]
पदार्थचन्द्रिकाटीकासहिता ।
ट
अद्भुतोत्साहशक्तीनामसाधारणजीविका ।। प्रसादलक्ष्म्याः प्रासादः प्रेतापस्य परा गतिः ॥ ५६ ॥ प्राणप्रतिष्ठा क्लिष्टानां प्रपन्नानां परायणम् ॥ अनपायसमृद्धीनामवगाहनदीर्घिका ॥ ५७ ॥ जम्भशासनजीवातुर्जन्मगेहं जयश्रियः ॥ दुर्वारघोरदारियदर्वीकरखगेश्वरः ॥ ५८ ॥ तत्तादृक्ताटकादेहध्वान्तराजीवबान्धवः ॥ मुबाहुमत्तमातङ्गसंहारवरकेसरी ॥ ५९ ॥ भार्गवाग्रहदावाग्निपरिमार्जननिर्झरः ॥
अद्धतेति । अद्भुताः आश्चर्यकारका ये उत्साहा वनवासादिकष्टभाक्त्वेऽपि खेदाप्रदर्शनरूपाः तेषां याः शक्तयः सामर्थ्यानि तेषां, असाधारणा असामान्या जीविका जीवनसाधनम् । न त्वेतादृशः शक्तयः साधारणपुरुषे वस्तुं शक्नुवन्तीति भावः । प्रसादरूपा प्रसन्नतारूपा या लक्ष्मीः संपत् तस्याः , प्रासादः भवनं, प्रतापस्य पराक्रमस्य परा गतिः उत्तमं प्राप्यस्थानम् ॥ ५६ ॥
प्राणेपि । तया क्लिष्टानां क्लेशयुक्तजनानां प्राणप्रतिष्ठा प्राणानां स्थितिसाधनं, प्रपन्नानां शरणागतानां परमुत्तममयनमाश्रयस्थानं, तथा अनपाया विनाशरहिताश्च ताः समृद्धयः संपत्तयस्तासां अवगाहनस्य स्नानस्य दीर्घिका वापी “सरो वापी तु दीर्घिका" इत्यमरः ॥ ५७ ॥
जम्भेति । जम्भशासनस्य इन्द्रस्य रावणकृतस्थानभ्रंशादित्रासात् मृतप्रायस्येत्यर्थः । जीवातुर्जीवनौषधं, रावणवधात् पुनः खस्थानस्थापनात् । तथा जयश्रियः जयसंपत्तेः अथवा जयेन या श्रीः शोभा तस्याः “शोभा-संपत्ति-पद्मासु लक्ष्मीः श्रीरपि गद्यते” इति विश्वः । जन्मगेहं उत्पत्तिस्थानम् । तथा दुवीरं निवारयितुमशक्यं अत एव घोरं भयंकरं यद्दारिद्यं तद्रूपो यो दर्वीकरः सर्पः । “सर्पः पृदाकुर्भुजग:-" इत्यत आरभ्य “दर्वीकरो दीर्घपृष्टः" इत्यन्तोऽमरः । तस्य खगेश्वरो गरुडः ॥ ५८ ॥
तदिति । तत्तादृक्ताटकादेहः स चासौ तादृशः यज्ञादिशुभकर्मप्रध्वंसकः प्रसिद्धः ताटकाया एतदभिधाया राक्षस्याः शरीरं तद्रूपो यो ध्वान्तोऽन्धकारः तस्य राजीवबान्धवः सूर्यः । तथा सुबाहुरूपो यो मत्तमातङ्गः मत्तहस्ती तस्य संहारे विनाशे वरकेसरी महासिंहः “ सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः" इत्यमरः ॥५९॥ . भार्गवेति । भार्गवस्य परशुरामस्य आग्रहः रामस्य सीतापरिग्रहोत्तरं वनगरं प्रति
१ एतदर्थं कचिन्न दृश्यते. २ 'प्रसादस्य'. ३ 'शिष्टानां'. ४ 'परिवर्जुन'.
For Private And Personal Use Only