________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
विश्वगुणादर्शचम्पू:- [अयोध्याप्रौपतिरथागारपरिष्कारहरिन्मणिः ॥ जानकीलोचनद्वन्द्वचकोरानन्दचन्द्रमाः ॥ ५१ ॥ संसारमार्गसंचारश्रान्तच्छायामहीरुहः ॥ सर्वराक्षसवेतालसमुच्चाटनमान्त्रिकः ॥ ५२ ॥ करुणारसकल्लोलकदैम्बवरुणालयः ॥ तपोधनजनाकाङ्क्षातीकनवतोयदः ॥ ५३ ॥ विद्याविहरणोद्यानं विनयास्थानमण्डपः ॥ सौर्लभ्यप्राभवोत्कर्षसमावेशनिवेशनम् ॥ ५४ ॥ सौजन्यवादान्यकयोः सामानाधिकरण्यभूः ॥
सौमुख्य-मुख्यभवनं सौहार्दैकवितर्दिका ॥ ५५ ॥ प्रौढेति । प्रौढः समर्थो यः पतिरथो दशरथः तस्यागारं गृहं तत्र यः परिष्कारोऽलंकारः। अत्र “संपरिभ्यां करोती भूषणे" इति सुटू । तस्य हरिन्मणि: मरकतमणिः । जानक्याः सीतायाः लोचनद्वद्वं नयनयुगलं तदेव चकोरः चकोरपक्षी तस्य आनन्दकरश्चन्द्रमाः चन्द्रः ॥ ५१ ॥
संसारेति । संसारमार्गे संचारः भ्रमणं तेन श्रान्तानां (जनानां) छायामहीरुहः छायाकारको वृक्षः। सर्वे ये राक्षसा वेतालाः पिशाचविशेषाश्च तेषां समुच्चाटने निवारणे मान्त्रिकः मन्त्रवेत्ता । मन्त्रशब्दात् 'वेत्ति' इत्यस्मिन्नर्थे ठक् प्रत्ययः ॥५२॥
करुणेति । करुणारसस्य दयारसस्य कल्लोलानां महातरङ्गाणां "महत्सूल्लोल-क. ल्लोलौ" इत्यमरः । कदम्बानि समूहास्तेषां वरुणालयः सागरः । तप एव धनं येषां ते तपोधनास्तपस्विनो मुनयः तेषां जनः समूहः तस्य यदाकाङ्क्षातटाकं इच्छारूपं सरोवरं तस्य नवतोयदः नवीनो मेघः ॥ ५३ ॥
विद्येति । विद्याया विहरणोद्यानं क्रीडोपवनं, विनयस्य आस्थानमण्डपः सभामण्डपः । सौलभ्यं समता च प्रभो वः प्राभवं प्रभुत्वं च तयोरुत्कर्षस्याधिक्यस्य समावेशनिवेशनं सामानाधिकरण्यावच्छेदकमेकाधिकरणमिति यावत् ॥५४ ॥
सौजन्येति । सुजनस्य भावः सौजन्यं सज्जनत्वं च वदान्यस्य दातुःभावः वादान्यकम् दातृत्वं “योपधाद्गुरूपोत्तमात्-" इति भावार्थे वुञ्प्रत्ययः । तयोः, सामानाधिकरण्यभूः सहवासस्थलम् । एतद्धि दुर्घट, यदेकत्र सुजनत्व-दातृत्वयोः सहवास इति । तस्माल्लोकोत्तरत्वमस्य द्योयते । सुमुखस्य भावः सौमुख्यं सुमुखवं, भावार्थे ध्यञ् । प्रसन्नवदनत्वमिति यावत् । तस्य मुख्यभवनं, सुहृदो भावः सौहार्द प्रेम तस्य वितर्दिका वेदिका उपवेशनस्थलमिति यावत् । “ स्याद्वितर्दिस्तु वेदिका" इत्यमरः ॥ ५५॥
१ 'प्राश्चत्पति'. २ ‘सर्वपातकवेताल'. ३ 'पीयूष'. ४ 'तटाकवनतोयदः'. ५ विनयस्थान'., ६ 'सौरभ्य'. ७ 'प्रभवोत्कर्ष'. ८ 'निवेशनः'.
For Private And Personal Use Only