________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५]
पदार्थचन्द्रिकाटीकासहिता ।
तथापि तदीयगुणार्णवकणैकदेशकोटितमांशकलामात्रमिदमत्रसवता श्रोतव्यम् ॥ १७ ॥
ककुत्स्थकुलपर्यायकलशार्णवकौस्तुभः ॥ कौसल्यासुकृतवातकल्पकप्रसवोदयः ॥ ५० ॥
निति यावत् । गणनया संख्यया दरिद्रान् रहितान् असंख्येयानित्यर्थः । गुणानां दयादाक्षिण्यादीनां गणान् समुदायान्, गातुं सविस्तरं वर्णयितुं, कः (पुमान्) ईष्टे स. मर्थो भवति ? कोऽपि नैवेत्यर्थः। 'ईश ऐश्वर्ये' इति धातोर्लट्र प्रथमपुरुषः । कुत एतदित्यत आह-प्राचेतसाद्या इति । प्राचेतसः वाल्मीक: "प्राचेतसश्चादिकविः स्यान्मत्रावरुणिश्च सः वाल्मीक:-" इत्यमरः। आद्यः प्रथमो येषां ते व्यास-वाल्मीकपराशरप्रभृतय इत्यर्थः । न अवद्याः गहणीयाः अनवद्याः अनिन्द्याः प्रशंसनीया इति यावत् । “अवद्य-पण्य-वर्या-" इत्यादिना वदेनझुपपदात् यत्। कवयः येषांश्रीरामगुणानां एकदेशस्य यत्किचिल्लेशमात्रस्य आकलनं वर्णनं तस्मिन्नपि न ईशाः न समर्थाः भवन्तीति शेषः । इतरे तु किमुतेत्यर्थः । एतेन श्रीराममाहात्म्यं सामग्र्येण वर्णयितुं ब्रह्मादयो देवा अपि न शक्नुवन्तीति सूचितम् । तदुक्तं श्रीमदध्यात्मरामायणे स्वयं ब्रह्मणैव-"श्रीरामचन्द्रमाहात्म्यं कृत्स्नं जानाति शंकरः । तदर्धे गिरिजा वेत्ति तदर्ध वेद्यहं मुने।" इति । अत्र पूर्ववाक्यस्योत्तरवाक्यार्थहेतुस्वात् काव्यलिङ्गमलंकारः । इन्द्रवज्रा वृत्तम् "स्यादिन्द्रवज्रा यदि तौ ज-गौ गः” इति तल्लक्षणम् ॥ ४९ ॥
तथापीति । तथापि श्रीरामगुणवर्णनस्याशक्यत्वेऽपि तदीयाः श्रीरामचन्द्रसंबन्धिनः ये गुणाः सौशील्यादयस्तद्रूपो योऽर्णवः समुद्रस्तस्य कणः लेशः तस्याप्येकदेशः किंचिदंशः तस्यापि कोटितमोऽशः तस्य कला पोडशभाग एव कलामात्रं "कला तु षोडशो भागः” इति “मात्रं कारूयेऽवधारणे” इति चामरः । मात्रशब्देन न त्वेतस्मादधिकं मादृशपामरजनैर्वक्तुं शक्यत इति द्योतितम् । इदं वक्ष्यमाणं अत्रभवता पूज्येन, अथवा अत्र श्रीरामविषये भवता त्वया श्रोतव्यमाकर्णनीयम् ॥ १७ ॥
तदेवाहैकोनविंशतिश्लोकः-ककुत्स्थेति । ककुत्स्थकुलं ककुत्स्थकुलशब्दः पर्यायः वाचकान्तरं यस्य अर्थात् ककुत्स्थकुलरूपो यः कलशार्णवः क्षीरसागरः तस्य कौस्तुभः एतन्नामा मणिः, पुनः कौसल्यायाः सुकृतव्रातः पुण्यपुञ्जः स एव कल्पकः कल्पवृक्षः तस्य प्रसवोदयः पुष्पोद्गमः । इत आरभ्य सर्वेषां श्लो. कानां 'रमते मम तेजस्वी रामः कामसमो हृदि' इत्यनेनान्वयः। सर्वत्र रूपकालंकारः अनुष्टुप् वृत्तं च ॥ ५० ॥
१ 'कणानामेकदेशलेश'. २ 'काकुत्स्थ'.
For Private And Personal Use Only