________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
विश्वगुणादर्शचम्पू:- [अयोध्याअभिषिक्तो यथावच्च वसिष्ठाद्यैर्महर्षिभिः ॥ रमते मम तेजखी रामः कामसमो हृदि ॥ ६८ ॥ अत्र किल पवित्रचरितः कश्चिद्विपश्चिदजस्रमित्थमनुसंधत्ते ॥ १८ ॥
ध्यायामि राममभिरामगिरा मरन्द
धारामदघ्नमितराममरेविरामम् ॥ आराममद्भुततरामलसद्गुणानां घोरामयघ्नमसुरामरवन्दिताभिम् ॥ ६९ ॥
अभिषिक्त इति । अपि च महर्षिभिः वसिष्ठाद्यैर्वसिष्ठ-विश्वामित्रादिभिः, यथावत् शास्त्रविधिमनुसृत्य, राज्ये इति शेषः । अभिषिक्तः, एतादृशः कामसमः मदनतुल्यः तेजखी प्रशस्ततेजोयुक्तः "असू-माया-मेधा-" इत्यादिना मत्वर्थे विनिप्रत्ययः । रामः मम हृदि रमते क्रीडति । अहं तावत् भक्त्यादिसाधनैः सकलप्राणिहृदयनिवासिनं तं जानामीति भावः । अत्र तावत् 'ककुत्स्थकुलपर्याय-' इत्यादिभिरेकोनविंशतिश्लोकैः श्रीरामजन्मन आरभ्य रावणवधोत्तरं पुनरयोध्यामागत्य राज्याभिषेकपर्यन्तः श्रीरामायणकथार्थः सूचितः ॥ ६८ ॥
एवं समग्रं श्रीरामचरितमुक्त्वा तत्स्तवने विद्वदनुमतिं प्रदर्शयति-अत्रेति । अत्र श्रीरामविषये पवित्रं चरितमाचरणं यस्य तथाभूतः कश्चिद्विपश्चित् एतद्रन्थकर्ता वेङ्कटाध्वरिनामा पण्डित इत्यर्थः । अजस्रं सततं “सततेऽनारताश्रान्तसंतताविरतानिशम् । नित्यानवरताजस्रम्-" इत्यमरः । इत्थं वक्ष्यमाणप्रकारेण "इदमस्थमुः" इतीदंशब्दात् प्रकारार्थे थमुप्रत्ययः । अनुसंधत्ते अनुसंदधाति उच्चारयतीत्यर्थः । किलेति निश्चयेन ॥ १८ ॥
यदनुसंधत्ते तदेवाह-ध्यायामीति । अभिरामा मनोहरा चासौ गीर्वाक च तया वाङ्माधुर्येणेति यावत् । मन्दरस्य मकरन्दस्य "मकरन्दः पुष्परसो मरन्दोऽपि निगद्यते” इति कोशः (?) धाराया मदं हन्तीति मदनः तं, मकरन्दमाधुर्यमपि तुच्छीकुर्वन्तमित्यर्थः । मदनमित्यत्र हन्तेः मूलविभुजादेराकृतिगणत्वात् कप्रत्ययः । “हो हन्तेः" इति कुत्वम् । तदुक्तम् सिद्धान्तकौमुद्याम् “अमनुष्यकर्तृके च" इति हन्तेष्टग्विधायके सूत्रे--'अथ कथं 'बलभद्रः प्रलम्बघ्नः' 'कृतघ्नः' 'शत्रुघ्नः' इत्यादि । मूलविभुजादित्वात्सिद्धम्' इति । अरेः एतजातावेकवचनम् । शत्रूणामिसर्थः । विरामं नाशकम् । अत एव इता प्राप्ता रामा सीता येन तम् । सीतापहारकरावणादिशत्रुविनाशात् प्राप्तस्त्रीकमित्यर्थः। अतिशयेन अद्भुताः आश्चर्यावहाः अद्भुततराः, अतिशायने तरम् । च अमलाः निर्मलाश्च ते सद्गुणाः लोकत्रासावहशत्रुनिराकरण-लोकसुखोत्पादनादिरूपाः सुन्दरगुणास्तेषाम् । अद्भुततरत्वममलत्वं
१ एतदर्ध कचिन्न दृश्यते.
For Private And Personal Use Only