________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
-वर्णनम् ५] पदार्थचन्द्रिकाटीकासहिता । ४७
दयासमुदयालये मुदधिकानने कानने
पलाशनपलायनप्रणयिकार्मुके धार्मिके ॥ समीरजसमीडिते प्रविश चित्त मे सत्तमे
बलीकृतवलीमुखे मनुजधर्मिणि ब्रह्मणि ॥ ७० ॥ अस्त्रामास तृणं प्रियाद्रुहि तृणाभास स्मरारेर्धनु
रामास मुनेः शिलाऽपि नृवरामास स्वयं पादुका ॥
चैतद्विशेषणद्वयं गुणानां, न केवलमाश्चर्योत्पादका एव गुणाः किंतु निर्मलाः कुत्रापि दूषणोत्पादनानौंः इतरलोकानुकरणाश्चि इति यावत् । अन्यथा केवलं गुणानामा. श्वर्यावहत्वं दुष्टानां रावण-कुम्भकर्णादीनामपि वर्तते इति द्योतनार्थम् । तादृशगुणानां आरामं उपवनं, सकललोकानां सुखशान्त्युत्पादकत्वेनारामसादृश्यम् । घोरा भयंकराश्च ते आमयाः संसारसंबन्धिनो रोगाश्च तान् हन्ति विनाशयतीति घोरामयनं "घोरं भीमं भयानकम्” इति "रोग-व्याधिगदामयाः” इति चाप्युभयत्रामरः । जन्म-जरा-मरणादिसकलप्रापश्चिकदुःखनिवारकमित्यर्थः । असुरा दैत्याश्च अमरा देवाश्च तैर्वन्दितौ अङ्गी चरणौ यस्य तथाभूतम् । रामं ध्यायामि मनसि चिन्तयामि । इन्द्रवज्रावृत्तम् । लक्षणमुक्तं प्राक् (४९ श्लोकटीकायाम् ) ॥ ६९ ॥
दयेति । दयायाः समुदयस्य समुदायस्य "समुदायः समुदयः” इत्यमरः । आलयं स्थानं तस्मिन् । काननेऽरण्ये वनवासे सत्यपीत्यर्थः। मुदा आनन्देन "मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोद-संमदाः । स्यादानन्दथुरानन्द:-" इत्यमरः । अधिकं उल्लासयुक्तं आननं मुखं यस्य तस्मिन् । पलं मांसं "अधः-खरूपयोरस्त्री तलं स्याच्चामिषे पलम्" इत्यमरः “पलमुन्मानमांसयोः” इति रुद्रश्च । अशनं भक्षणं येषां ते पलाशना राक्षसास्तेषां पलायने विद्रावणे प्रणयि परिचययुक्तं समर्थमिति यावत् । कार्मुकं धनुः यस्य तस्मिन्, धर्म चरतीति धार्मिकः तस्मिन् “धर्म चरति" इति ठञ् । बलीकृताः शक्तियुताः कृताः वलीमुखा वानरा येन तस्मिन् । “कपिप्रवङ्ग-प्लवग-शाखामृग वलीमुखाः । मर्कटो वानरः कीशः" इत्यमरः । समीरात् वायोः जात उत्पन्नः समीरजो मारुतिस्तेन समीडितः स्तुतः तस्मिन् । मनुजधर्मिणि लीलार्थ मनुष्यधर्मवति, वस्तुतस्तु ब्रह्मणि ब्रह्मस्वरूपे सत्तमे अतिशयसाधौ श्रीरामे इत्यर्थः । हे मे चित्त मन्मानस, प्रविश प्रवेशं कुरु तं भजेत्यर्थः । पृथ्वी वृत्तम् । लक्षणं पूर्वोक्तम् ( १२ श्लोकटीकायां कथितम् ) ॥ ७० ॥
किंच अस्त्रामासेति । हे भगवन् श्रीरामचन्द्र, प्रियायै सीतायै द्रुह्यती.ते धुक् तस्मिन् सीताचरणाङ्गुष्ठभेदके ऐन्द्रकाके इत्यर्थः। तृणं दर्भखण्डं अस्त्रामास अस्त्रवदाचचार । अस्त्रशब्दात् “कर्तुः क्यङ्-" इति सूत्रस्थेन “आचारेऽवगल्भ-" इत्यादिवातिकात् 'आचारे' इत्यनुवर्तमाने सति "सर्वप्रातिपदिकेभ्यः किव्वा वक्त
For Private And Personal Use Only