________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[अयोध्या
कुल्यामास महार्णवोऽपि कपयो योधांबभूवुस्तदा पौलस्त्यो मशंकांबभूव भगवंस्त्वं मानुषामासिथें ॥ ७१॥
अशिलाप्राणदपँदैरचराचरमुक्तिदैः ॥ असर्वभूताभयदैरशर्वधनुरर्दनैः ॥ ७२ ॥ अब्रह्मास्त्रीकृततृणैरतृणीकृतरावणैः ॥
अलं कातरदेवैस्तैरलङ्कापुरसाधकैः ॥ ७३ ॥ व्यः" इति वार्तिकेनाचारविपि तदन्तस्य धातुत्वात् तस्माल्लिविवक्षायां च तस्मिन् परे अनेकाच्त्वादामि अस्तेरनुप्रयोगः, क्वचिद्भवतेरपि । एवमग्रेऽप्यूह्यम् । तथा सीतास्वयंवरप्रसङ्गे इति शेषः । स्मरारेः शिवस्य धनुः तस्मिन् समये पणीकृतमित्यर्थः । तृणामास तृणवदाचचार । तत्रभवता तृणवद्भग्नमित्यर्थः। शिलाऽपि दृषदपि मुनेरौतमस्य दारामास स्त्री बभूव । पादुका, भवतः इत्यर्थः । वयं नृणां मनुष्याणां वरः श्रेष्ठः "देवादृते वरः श्रेष्ठे” इत्यमरः । राजा तद्वत् आचचारेति नृवरामास । वनवासगमनप्रसङ्गे भरताग्रहात् तस्मै समर्पितेत्यर्थः । भरतेनापि श्रीरामागमनपर्यन्तं राज्यं पादुकायां निवेद्य स्वयं प्रधानवत् आचरितमिति प्रसिद्धिः। तथैव महार्णवः समुद्रः अपि कुल्यामास अल्पा सरिदिव बभूव । “कुल्याल्पा कृत्रिमा सरित्" इत्यमरः । श्रीरामस्य लङ्कागमनसमये तत्कोपाद् भीतः समुद्रः क्षुद्ररूप आसीदिति श्रीरामायणे । तथा कपयो वानराः योधांबभूवुः योद्धारः बभूवुः । "भटा योधाश्च योद्धारः।" इत्यमरः। पुलस्त्यस्य विश्रवसः अपत्यं पौलस्त्यो रावणः मशकांबभूव मशकवदास । युद्धे मशकवदनायासेन पराभूत इत्यर्थः । त्वं श्रीरामश्च मानुषामासिथ मनुष्यवदाचेरिथ । शार्दूलविक्रीडितं वृत्तम् ॥ ७१ ॥
एवं चैतादृशमहाप्रभावत्वाद्यदि भजनीयः स्यात्तर्हि श्रीराम एवेति द्योतयनेतत्प्रकरणं (अयोध्यावर्णनं ) उपसंहरति-अशिलेति । श्लोकद्वयस्यैकान्वयः। प्राणं जीवनं ददातीति प्राणदं शिलायाः अहल्यारूपायाः प्राणदं जीवनप्रदं उद्धारकमिति यावत् । तादृशं पदं चरणः न भवति येषामित्यशिलाप्राणदपदास्तैः । तथा चराचराणां स्थावरजङ्गमानां मुक्तिदाः कैवल्यप्रदाः न भवन्तीति तथाभूतैः । तथा सर्वभूतानां प्राणिनां अभयदाः न भवन्ति तैः । शर्वस्य शिवस्य "शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः" इत्यमरः । धनुषः अर्दना भञ्जकाः न भवन्तीति तथा तैः । तथा ब्रह्मास्त्रमिव न कृतं तृणं यैस्तैः, न तृणीकृतः तृणवत्तुच्छीकृतः रावणः यस्तैः, अत एव न साधितं लङ्कापुरं लङ्कानगरी यैस्तथाभूतैश्च अत एव कातरा भीरवश्व "अधीरे कातरस्त्रस्ते भीरु-भीरुक-भीलुकाः” इत्यमरः । ते देवाश्च तैः । अलं कृतम्। ये तावदुपरिवर्णितानि लोकोपकारभूतानि कार्याणि कर्तुं न शक्नुवन्ति ते देवा मा सन्त्वित्यर्थः । अनुष्टुप् ॥ ७२ ॥ ७३ ॥
१ 'मशकी'. २ 'मासिथाः'. ३ 'परै'.
For Private And Personal Use Only