________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १०] पदार्थचन्द्रिकाटीकासहिता । सभक्त्युन्मेषम्
दारुणि सन्निहिताय प्राज्ञैर्हतमश्नते मखेषु हविः॥ . शिशिराय नित्यरुचये शुचये रचयेयमद्भुताय नतीः ॥ ११४ ॥
अथ गुर्जरदेशवर्णनम् १०.
इति नमस्कृत्य सुदूरमन्यतो विमानं प्रस्थाप्य सश्लाघम्
सखे स एष सर्वसंपदामास्पदतया त्रिदशालयस्यादेश इव गुर्जरदेशश्चक्षुषोः सुखीकरोति ॥ ३३ ॥ अत्र हि-~सकर्पूरखादुक्रमुकनववीटीरसलस
न्मुखाः सर्वश्लाघापदविविधदिव्याम्बरधराः ॥ सभक्त्युन्मेषम् । अस्य पूर्व पुनरिति शेषः । अन्ते च आहेति । दारुणीति । दारुणि काष्ठे संनिहिताय संनिधित्वेन स्थिताय, प्राज्ञैः पण्डितैः मखेषु यागेषु हुतं विधिवदर्पितं हविः घृतादिहवनीयद्रव्यं अश्नते ग्रहीत्रे पक्षे हविर्भुजे इत्यर्थः । विरोधमाह-शिशिराय दयया शीतलाय शिशिरऋतवे च, नित्या विनाशरहिता रुचिः कान्तिर्यस्य तस्मै शाश्वतप्रभायेत्यर्थः । पुनरपि विरोधमाह शुचये ग्रीष्मतवे नित्यशुद्धाय इति विरोधपरिहारः । अग्नये च “ शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात् ” इति विश्वः । अद्भुताय लोकविलक्षणैः कर्मभिर्विस्मयकराय, नतीनमस्कारान् रचयेयम् कुर्याम् । 'रच प्रतियत्ने' इत्यस्माचौरादिकाद्विधिलिङयुत्तमपुरुषैकवचम् ॥ ११४ ॥
अथ गुर्जरदेशवर्णनप्रस्तावमाह-इतीति । इत्येवमुक्त्वा नमस्कृत्य जगन्नाथमित्यर्थः । सुदूरं तत्क्षेत्रादतिदूरं अन्यतोऽन्यत्र स्थले विमानं प्रस्थाप्य सश्लाघं प्राहेति।
सख इति । हे सखे, सः य एतावत्कालपर्यन्तं केवलं श्रुतः स इत्यर्थः । एषः प्रत्यक्षतया दृश्यमानः, सर्वसंपदामास्पदतया स्थानतया त्रिदशालयस्य वर्गस्यादेशः आदिश्यते प्रतिनिधितया निर्दिश्यते तथा, प्रतिमारूप इवेत्यर्थः । गुर्जरदेशः चक्षुषोः नेत्रयोः सुखीकरोति आनन्दमुत्पादयति ॥ ३३ ॥
तदेवाह-सकर्पूरेति । अत्र हीत्यनुषञ्जनीयम् । अस्मिन्देशे इति तदर्थः । कर्पूरेण सहिता युक्ता सकर्पूरा सा च खादुकमुका मधुरपूगीफलसहिता । "घोण्टा तु पूगः क्रमुकः” इत्यमरः । सा चासौ नवा वीटी ताम्बूलपट्टिका च तस्याः रसेन
१ 'चक्षुषी सुखिनी करोति', 'सुखाकरोति'.
For Private And Personal Use Only