________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [जगन्नाथक्षेत्रअथ जगन्नाथक्षेत्रवर्णनम् ९.
अन्यच्चेदमस्य भागधेयं वर्तते ॥ ३२ ॥ यत्तीरे पुरुषोत्तमस्थलमिदं यक्षाप्सरः-किन्नर
श्रेष्ठैर्नित्यमधिष्ठितं भगवतः सान्निध्यसौख्यास्पदम् अत्र त्यक्तवतामसून् करगता मुक्तिस्तदास्तामहो
देहो दाहविनाकृतोऽप्यविकृतः काष्ठादिवत्तिष्ठति ॥ ११२ ॥ किंच
निवेदितस्यात्र रमासखाय नीचाहतस्यापि किलौदनोंदेः ॥
भक्त्याँशनं हन्त भवार्जितानां महांहसां नाशनमामनन्ति ॥११३॥ अथेदानी तत्तीरस्थजगन्नाथक्षेत्रवर्णनमाक्षिपति-अन्यञ्चेति । अस्य समुद्रस्य अन्यच्चान्यदपि, इदं वक्ष्यमाणरूपं भागधेयं भाग्य, अस्तीति शेषः ॥ ३२ ॥
यत्तीर इति । यस्य समुद्रस्य तीरे अर्थाद्दक्षिणे । भगवतः ईश्वरस्य सानिध्येन संनिधित्वेन जागरूकतयेत्यर्थः सौख्यास्पदं सुखस्य स्थानं अत एत यक्षाश्च अप्स. रसः सर्वेश्याश्च किंनराश्च एते देवविशेषाः । तेषु श्रेष्ठैः । यद्वा यक्षादयः श्रेष्टा मुख्या येषु तैः सर्वैरपि देवैरित्यर्थः । नित्यं संततमधिष्ठितमाश्रितं, एतादृशमिदं पुरो दृश्यमानं, पुरुषोत्तमस्य भगवतो जगन्नाथाभिधस्य स्थलं स्थानं, अस्तीति शेषः। अत्र क्षेत्रे असून प्राणान् “पुंसि भूम्यसवः प्राणाः” इत्यमरः। त्यक्तवतां जीवितकालपर्यन्तमत्रैव स्थित्वा देहं त्यक्तवतामित्यर्थः । न तु आत्महत्यादिना । दोषास्पदत्वात् । मुक्तिः कैवल्यं करगता हस्तस्थिता स्वाधीनेत्यर्थः तत्तु आस्ताम् । किंतु अत्र देहः शरीरं,मृत इति ज्ञेयम् । दाहेन मन्त्राग्निना विनाकृतः रहितोऽपि,अविकृतः दुर्गन्ध्यादिविकाररहितः, काष्ठादिवत् आदिशब्देन शिलापाषाणसंग्रहः । तिष्ठति । अहो ! इदमतीवाश्चर्यमित्यर्थः ॥ ११२ ॥
निवेदितस्येति । किंच अत्र अस्मिन् क्षेत्रे रमाया लक्ष्म्याः सखा तस्मै "राजाह:-"इति टचू । जगन्नाथाभिधाय विष्णवे इत्यर्थः।नीचैःकुल-शील-विद्या-कलादि. भिहीनः, आहृतस्य आनीतस्य समर्पितस्येत्यर्थः । ओदनादेः अन्नादिनैवेद्यस्येत्यर्थः । किमुत महद्भिरर्पितस्य । भक्त्या प्रीला अशनं भक्षणं, भवे संसारे अर्जितानां संपादितानां, महान्ति च तानि अंहांसि पापानि च तेषां "पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोघमंहो दुरितदुष्कृतम्" इत्यमरः। नाशनं विनाशकारकं, भवतीति शेषः। इति आमनन्ति कथयन्ति । अत्रया जना इति शेषः । किलेति प्रसिद्धौ। हन्तेति हर्षे॥११३॥ १ प्रे?'. २ 'सान्निध्यमुख्यास्पदम्'. ३ 'किलौदनस्य'. ४ 'भक्ताशन'.
For Private And Personal Use Only