________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ८]
पदार्थचन्द्रिकाटीकासहिता ।
अमृतं विबुधेभ्योऽदादभीष्टफलं तरुं च धेनुं च ॥ दिग्वसनाय सितांशुकमीक्षित एतादृशः क्व वा दाता ? ॥ अमुप्य खलु भाग्यवत्तां शेषादयोऽपि वक्तुमशक्ताः ॥
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पश्य
जोरपत्यं जगतः पवित्रम् कलत्रमब्धेस्तनयः कलात्मा ॥
कन्या तु धन्या कमला बिभर्ति
जामातृभावं जगदीश एव ॥ १११ ॥
'७१
११० ॥
३१ ॥
किंतु पुनः तस्य बधिरस्य इन्द्रस्य च अनुजाय कनिष्ठबन्धवे (वामनेत्र र हिताय, ) विष्णवे च " उपेन्द्र इन्द्रावरजः" इत्यमरात् विष्णोरिन्द्रानुजत्वं प्रसिद्धम् । वामस्य सव्यस्य विलोचनस्य नेत्रस्य चन्द्रात्मकस्य च दातुः । श्रीविष्णोर्हि दक्षिणनेत्रं सूर्यो वामनेत्रं च चन्द्र इति प्रसिद्धम् । अस्मात् अर्णवतः समुद्रात् पञ्चम्यर्थे तसिः । वदान्यं उदारं अन्य वद कथय ? सर्वापेक्षया विकलाङ्गप्रदानमतिदुष्करमिति भावः ॥ १०९ ॥
अमृतमिति । किंच अयं समुद्रः अमृतं पीयूषं मोक्षं च विबुधेभ्यः देवेभ्यः ज्ञानिभ्यश्च, अदात् ददौ । ' डुदाञ् दाने ' इत्यस्मात् लुङि गाति स्था" इति सिचो लुक् । अभीष्टफलदं इच्छितफलदातारं, एतदुभयत्रापि संबध्यते । तरुं कल्पवृक्षं धेनुं कामधेनुं च अदात् दिश एव वसनं वस्त्रं यस्य तस्मै कस्मैचिद्दरिद्राय वरहिताय, श्रीशंकराय च, सितं शुभ्रं अंशुकं वस्त्रं, सिताः श्वेताः अंशवः किरणा यस्य स सितांशुः स एव सितांशुकश्चन्द्रः खार्थे कः । तं च अदात् । तस्मात् एतादृशसमुद्रसदृशः दाता क वा ईक्षितः अवलोकितः न कुत्रापीत्यर्थः ॥ ११० ॥
For Private And Personal Use Only
अमुष्येति । अमुष्य समुद्रस्य भाग्यवत्तां ऐश्वर्यवत्त्वं, शेषादयः सहस्रमुखशेषसदृशाः अत्रादिशब्दः सादृश्ये । "भूवादयो धातवः" इति पाणिनिसूत्रे इव । किमुन अन्ये । वक्तुं कथयितुमशक्ता, असमर्थाः ॥ ३१॥
3
भाग्यवत्तामेव दर्शयति-जह्वोरिति । अस्य अन्धेः समुद्रस्य जहो : एतन्नान्नो मुनेः अपत्यं कन्या, तच्च जगतः पवित्रं पवित्रकारकं न सामान्यम् । कलत्रं पत्नी । " कलत्रं श्रोणि-भार्ययोः " इत्यमरः । तथा अब्धेरिति सर्वत्रानुषञ्जनीयम् । तनयः पुत्रः कलात्मा कलास्वरूपः कलाभिर्वर्धमान इत्यर्थः । चन्द्रः । कन्या तु अत्र तु श्रार्थे । कमला लक्ष्मीः धन्या भाग्यवती, न तु हीना । अपि च जगतां स्वर्ग-मृत्यु पातालादिलोकानां ईशः अधिपतिः श्रीविष्णुः, जामातृभावं कन्यापतित्वं बिभर्ति धारयत एव । न त्वीदृशी भाग्यवत्ता त्रैलोक्येऽपि कस्य पुरुषस्यास्तीति भावः ॥ १११ ॥