________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:-
[समुद्र
बहुना-- कुम्भजपीतोत्सृष्टं शिष्टैरस्पृश्यमर्णवमुपेत्य ॥
उद्गततृष्णोऽप्यस्मादुदकं पान्थो जनो न गृह्णाति ॥ १०८ ॥ वि०--सखे सर्वगुणाकरः सरित्पतिरेष न दृषणीयः ॥ ३० ॥ तथाहि
उच्चैःश्रवःप्रदातुर्वृद्धश्रवसे पुनस्तदनुजाय ॥
वामविलोचनदातुर्वदान्यमस्माद्वदाऽन्यमर्णवतः ॥ १०९॥ चंत् , तर्हि कालान्तरेणेति शेषः विधितः दैववशात् , वढेरग्नेः ग्रासः दहनं वडवाग्निकृतं भक्षणं च भवति । अथवा लक्ष्मी धनसंपत्तिं रमां सीतारूपां च प्रेप्सोः प्राप्तमिच्छोः,जगतःअधिपती राजा तस्मात् त्रैलोक्याधिपतिर्विष्णुस्तस्मात् श्रीरामचन्द्राच, मन्थनं केनापि निमित्तेन ताडनादिरूपं मन्थनं विलोडनं च, तथा बन्धनं निगडादिना शिलापर्वतादिभिश्च सेतुरूपेण भवति । अत्र अस्मिन् विषये, साक्षी साक्षाद्रष्टा " साक्षादृष्टरि-" इति संज्ञायामिनिः । प्रत्यक्षतयानुभवितेत्यर्थः । सरखान् समुद्रः । अस्मिन् हि वडवाग्निभक्षणं, विष्ण्वादिदेवैर्मन्थनं, रामकृतं सेतुबन्धनं च संभूतमिति भावः । तस्माद्रव्यवता पुरुषेण एतन्मनसि निधाय पूर्वमेव दानभोगादिना द्रव्यस्य व्ययः कार्य इति भावः । एतदनुगुणमेव भर्तृहरिरप्याह-" दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति ” इति । सुभाषितरूपं चैतत् पद्यम् ॥ १०७॥
किमिति । बहुना उक्तेन किं फलमित्यर्थः । संक्षेपेणैव कथयामीत्याह-कुम्भजपीतेति । कुम्भात् जात उत्पन्नः कुम्भजोऽगस्त्यः तेन प्रथमं पीतं प्राशितं पश्चात् उत्सृष्टं सकम् मूत्रद्वारेणेति भावः । अत एव शिष्टैः सज्जनैः अस्पृश्यं स्प्रष्टुमयोग्यमर्णवं समुद्रं उपेत्य प्राप्य, उद्गता अतिशयेन प्राप्ता तृष्णा तृषा यस्य तथाभूतोऽपि पान्थः पथिकः जनः लोकः, अस्मात् समुद्रात् उदकं न गृह्णाति । क्षारवत्त्वादिति भावः ॥ १०८॥ . विश्वावसुराह सखे इति । हे सखे मित्र, सर्वगुणानामाकरः खनिरूपः " खनि स्त्रियामाकरः स्यात् " इत्यमरः । सरितां नदीनां पतिश्च एषः समुद्रः न दूषणीयः ॥ ३० ॥
तथेति । दूषणानहत्वमेवोपपादयति
'यस्य स्वर्णश्रियः-' इत्यादिनोक्तं दूषणं परिहरति-उच्चैरिति । वृद्धे जरसा बधिरे श्रवसी कौँ " कर्णशब्दग्रही श्रोत्रं श्रुतिः स्त्री श्रवण श्रवः" इत्यमरः । यस्य तस्मै कस्मैचित्पुरुषाय, वस्तुतस्तु इन्द्राय उच्चैः महतोः श्रवसोः कर्णयोः, वस्तुतः उच्चैःश्रवसोनाम्नः अश्वस्य " हय उच्चैःश्रवाः सूतः" इत्यमरः । प्रदातुः । नैतावदेव
१ 'च्छिष्टम्'.
For Private And Personal Use Only