________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
विश्वगुणादर्शचम्पू:- [ श्रीकामाक्षीदेवीकृ०-यद्यपि विद्यते कामाक्ष्याः सर्वाभिनन्दनीयं सौन्दर्य तथापि मुधा तदिति प्रतिभाति ॥ १२३ ॥ तथाहिकान्तो विरूपाक्ष इति प्रतीतः कामस्य हन्ता गिरिराजपुत्र्याः ।। स्तम्बेरमास्यस्तनयोऽपि तस्या लम्बोदरः किंफलमाभिरूप्यम्॥३१४॥
अनयोः खल्वम्बिका-त्र्यबकयोर्दाम्पत्यमननुरूपमिति व्यक्तमेतत् ॥ १२४ ॥ इयं हि सर्वमङ्गला स तु श्मशानमन्दिरो
विभाति हैमवत्यसौ स याति दिक्षु भिक्षुकः ।। तेः प्रतीपालंकारः । “आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धना" इति तल्लक्षणात् ॥ ३१३ ॥
यद्यपीति । यद्यपि कामाक्ष्याः सर्वं त्वया वर्णितं अभिनन्दनीयं प्रशंसनीयं सौन्दर्य सुन्दरत्वं विद्यते, तथापि तन्मुधा व्यर्थ "व्यर्थके तु वृथा मुधा" इत्यमरः । इति प्रतिभाति ॥ १२३ ॥
मुधात्वमेवाह-कान्त इति । गिरिराजस्य हिमालयस्य पुत्र्याः पार्वत्याः कामाक्ष्या इति यावत् । कान्तः पतिः शिवः, विरूपे कुरूपे अक्षिणी, वस्तुतः विरूपाणि विषमाणि त्रीणीति यावत् । अक्षीणि लोचनानि यस्य सः तथाभूतः, कामस्य धर्मादिक्रमेण तृतीयपुरुषार्थस्य, मदनस्य चेति वस्तुतः हन्ता विनाशकः इति प्रतीतः प्रसिद्धः । तथा तनयः पुत्रोऽपि स्तम्बेरमास्यः गजाननः, स्तम्बेरमेत्यत्र "स्तम्बकर्णयो रमि-जपोः” इत्यच्प्रत्ययः "तत्पुरुषे कृति-" इति सप्तम्या अलुक् । "इभः स्तम्बेरमः पद्मी" इत्यमरश्च । लम्बोदरः बृहदुदरश्चेति प्रतीतः । तस्याः कामाक्ष्याः अभिरूपस्य योग्यमाभिरूप्यं सौन्दर्योचितमित्यर्थः । किंफलम् ? किमपि नास्तीति । अथवा तस्याः आभिरूप्यं किंफलं कुत्सितफलमित्यर्थः । विरुद्धसामग्रीप्रतीतेरिति भावः । वस्तुतस्तु शिवपत्नीत्वात् सकलविघ्नविनाशकगणाधिपमातृत्वाच्च तस्याः सौन्दर्य किं किमप्यनिर्वाच्यं फलं सिद्धिर्यस्य तत्तथाभूतमित्यर्थः । व्याजस्तुतिरलंकारः ॥ ३१४ ॥ __ अनयोरिति । अम्बिका कामाक्षी देवी च त्र्यम्बकः शंकरश्च तयोः दंपत्योर्जायापत्योः भावः दांपत्यं, पति-पत्नीमिथुनमिति भावः । अननुरूपमयोग्य, अस्तीति शेषः । इत्येतत् व्यक्तं स्पष्टमेव खलु ॥ १२४ ॥
तदेवाह-इयं हीति । इयं अम्बिका कामाक्षी देवी हि, सर्वाणि मङ्गलानि शुभानि यस्याः सा तथाभूता, अस्तीति शेषः । स त्र्यम्बकस्तु श्मशानं पितृवनं, शून्य
--
१ 'इह'.
For Private And Personal Use Only