SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् २५] पदार्थचन्द्रिकाटीकासहिता । १७७ इयं तु कुङ्कुमाकिता स भस्मराशिरूषित स्त्वरालकुन्तला च सा जटाभिरेष भीषणः ॥ ३१५ ॥ वि०-वयस्य मैवं वादीः । न खल्वप्रशस्तैरप्यावास-वासःप्रभृतिभिः सांसिद्धिकमभिरूपाणामाभिरूप्येमपहीयते ॥ १२५ ॥ निवस्तां वा कृत्तिं निवसतु चिरं वा पितृवने शिवस्तावद्धत्तामहिगणमथाप्येष सुभगः ॥ परीतं शैवालैरुषितमपि पङ्केषु मलिना मलीनां बिभ्राणं किमिह कमनीयं न कमलम् ॥ ३१६ ॥ त्वात् श्मशानतुल्यं दहराकाशं च मन्दिरं, उपलब्धिस्थानं च यस्य सः तथोक्तः, असौ कामाक्षी तु हेम्नां सुवर्णालंकाराणां समूहः हैम, हेमपदं सुवर्णालंकारार्थे लाक्षणिक, समूहार्थेऽण् । तदस्यास्तीति तद्वती 'हिमवतोऽपत्यं हैमवतीति च । तादृशी विभाति विराजते । स शिवस्तु दिक्षु भिक्षति याचतीति निजभक्तकल्याणमभिवा छतीति च भिक्षुः स एव भिक्षुकः “सनाशंस-" इत्यादिना उप्रत्यये खार्थे कैः । तादृशः सन् याति परिभ्रमति । वस्तुतस्तु धनदादिसुहृत्त्वेऽपि नश्वरैश्वर्यवैतृष्ण्येनैव परमात्मलाभ इति द्योतनार्थ भिक्षुवृत्त्या परिभ्रमतीति । तथा इयं कामाक्षी तु कुङ्कुमेन केशर-कस्तूर्यादिसुगन्धद्रव्येण अङ्किता चिह्निता, सुगन्धिकुङ्कुमतिलकयुक्तेत्यर्थः । सः शिवः भस्मराशिना भस्मसमूहेन रूषितः विलिप्तः, तथा सा कामाक्षी अरालाः। कुटिलाः कुन्तलाः केशा यस्याः सा तथाभूता, सौभाग्यसूचककुटिलकेशयुक्तत्यर्थः । " अरालं वृजिनं जिह्म-" इति "चिकुरः कुन्तलो वाल: कचः केशः शिरोरुहः" इति चामरः । एष शिवश्च जटाभिः कदाप्यसंस्कृतत्वात् परस्परसंसक्तकेशैः, नियमाथे तैलादिसंस्काररहिततया केवलं जलप्रक्षालनमात्रसंस्कृतकेशैरिति तु परमार्थः । भीषणः भयंकरः । प्रापञ्चिकानां, न तु परमार्थविदामिति तत्त्वार्थः ॥ ३१५ ॥ अथ विश्वावसुः प्रकृतिसिद्धविभूतीनां महात्मनां न खलु वासोऽलंकारादि भूषणमिति द्योतयन्नाह-वयस्येति । भो वयस्य मैवं वादीः, कुतइति चेदाहअभिरूपाणां ज्ञानिनां आवासः वसतिस्थानं वासो वस्त्रं च तत्प्रभृतिभिः तत्प्रमुखैः सांसिद्धिक स्वभाव सिद्धं आभिरूप्यं सौन्दर्य न अपहीयते न विनश्यति । खलु निश्चयेन ॥ १२५॥ निवस्तामिति । शिवस्तावत् कृत्तिं गजचर्म "अजिनं चर्म कृतिः स्त्री" इत्यमरः। निवस्तां परिदधातु परिधानं करोत्वित्यर्थः । वाथवा चिरं बहुकालं पितृवने श्मशाने निवसतु वासं करोतु । वाथवा अहीनां सर्पाणां गणं समूहं कटककुण्डलादिरूपेण धत्तां धारयतु । अथापि तथापि एषः शिवः सुभगः शोभनैश्वर्यसंपन्न एव । १ 'अप्रशस्तैरपि वास-कृत्तिवासःप्रभृतिभिः'. २ 'अवहीयते'. ३ 'तदपि'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy