________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७८
विश्वगुणादर्शचम्पू:- [श्रीकामाक्षीदेवीकिंच
रमणीयः स हि पुरुषो रमणी यत्रैव रज्यति विदग्धा ॥
श्लोकः स एव सुभगश्चित्तं सक्तं हि यत्र रसिकस्य ॥ ३१७ ॥ अवधार्यतामत्रैतदतिमात्रं चित्रम् ॥ १२६ ॥ शिवाक्ष्यालोकितः कामो जित इत्येव शुश्रुम ।।
व्यत्यासोऽत्रजितो यस्मात् कामाक्ष्यालोकतः शिवः ॥ ३१८ ॥ पुष्कलं किल पुत्रभाग्यमपि पर्वतराजकन्यायाः ॥ १२७ ॥
अत्र दृष्टान्तमाह-कमलं शैवालैः परीतं वेष्टितं, पङ्केषु कर्दमेषु उषितं स्थितमपि, मलिनां कृष्णवर्णत्वेन मलयुक्तानां अलीनां भ्रमराणां बिभ्राणं धारकमपि, अलीनामित्यत्र कर्मणः शेषत्वविवक्षायां षष्ठी। “ कर्तृ कर्मणो:-" इति प्राप्तायाः षष्ठ्याः
"न लोक-" इत्यादिना निषेधात् । तत् इहलोके कमनीयं सुन्दरं न किम् ? किंतु 'किमिव हि मधुराणां मण्डनं नाकृतीनाम्' इति कालिदासोक्तन्यायेन तदतीव सुन्दरमिति भावः ॥ ३१६ ॥
किंच शिवे पार्वत्याः प्रेमातिशयदर्शनादेव तत्सौन्दर्यमवगन्तव्यमिति कथयतिरमणीय इति । स हि स एव पुरुषः रमणीयः सुन्दरः । स कः । यत्रैव यस्मिन् पुरुषे एव विदग्धा चतुरा रमणी स्त्री रज्यति रमते, स इति सम्बन्धः । अत्र दृष्टान्तः-यत्र श्लोके रसिकस्य अलंकारादिसाहित्यसंपन्नस्य, चित्तं सक्तं संलग्नं, स एव श्लोकः पद्मं सुभगः मनोहरः इति ज्ञेयम् ॥ ३१७ ॥ __ अवधार्यतामिति । अत्र शिवाम्बिकाविषये एतदतिमात्रं अतिशयितं चित्रमाश्चर्य अवधार्यताम् निश्चीयताम् ॥ १२६ ॥
शिवेति । शिवस्य अक्ष्णा ललाटस्थतृतीयनेत्रेणेत्यर्थः । आलोकितः दृष्टमात्र एव कामो मदनः जितः इत्येव शुश्रुम पुरा शृणुमः । अत्र तु व्यत्ययः वैपरोत्यं वर्तते । यस्मात् कामस्य मदनस्य अक्ष्णः आलोकतः शिवः जितः । वस्तुतः कामाक्ष्या देव्याः आलोकतः जितः इत्यर्थः । इदमेव श्लेषार्थजन्यं चित्रमिति भावः ॥ ३१८ ॥
एतावता ' कान्तो विरूपाक्ष-' इत्याद्यर्थदूषणं परिहृतं, इदानीं 'स्तम्बेरमास्यस्तनयः-' इत्यादिनोक्तस्य दृषणस्य परिहारार्थमुत्तरमाह-पुष्कलमिति । पर्वतराजस्य हिमालयस्य कन्यायाः भगवत्याः अम्बिकायाः पुत्रभाग्यमपि पुष्कलं बहुलं, अस्तीति शेषः ॥ १२७ ॥
१ 'लोकतः'. २ 'जितः काञ्चयां'.
For Private And Personal Use Only