________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता.।
१७९
यतः--
कुशलीभनाथवत्रः पुत्रः प्रथमो हिमाद्रितनयायाः ।। पञ्चास्यापितुरधिकः षडाननो नन्दनो द्वितीयोऽस्याः ॥३१९ ॥
अथ श्रीमदेकानेश्वरवर्णनम् २६.
इत्यन्यतः किंचित्परिक्रामन् सामोदम्शशाङ्कमौलिः सहकारमूले कैलासवासी स इहाविरासीत् ।। यस्याग्निभूर्दृक् च तनूभवश्च योषाऽपिभूषाऽपि च नागराजी॥३२०॥ कु०--वयस्य किं वर्णयसि विश्वविलक्षणचारित्रं रुद्रम् ? लोके हि लोचनशैत्यसंपिपादयिषया यतमानान् जनानेव पश्यामः । अयं तु पशुपतिः स्थाणुरिति वाहृयमन्वर्थयन्निवें आशुशुक्षणिमक्ष्णि निक्षिप्तवान् ॥ १२८ ॥ कुशलीति । हिमाद्रितनयायाः भगवत्याः पार्वत्याः, भानां नक्षत्राणां नाथश्चन्द्रः सइव वक्रं मुखं यस्य, इभनाथस्य गजेन्द्रस्य च मुखं यस्य स इति च, कुशली प्रशस्तकल्याणयुक्तः प्रथमः पुत्रः अस्ति । अस्याः द्वितीयो नन्दनस्तु पश्चास्यात् पञ्चमुखयुक्तात् पितुः शिवादपि अधिकः एकाननमात्रेणेवेत्यर्थः । षडाननः स्कन्दः अस्ति ॥ ३१९ ॥
अथ तस्मिन्नेव देशे स्थलान्तरवर्णनार्थमुपक्रमते कविः-इतीत्यादि । परिक्रामन् गच्छन् । सामोदं सानन्दम्
शशाङ्कमौलिरिति । कैलासवासी कैलासपर्वताधिष्ठाता सः प्रसिद्धः शशाङ्कश्चन्द्रः मौलौ मस्तके यस्य तथाभूतः शिवः, इह काञ्चीनगर्यो सहकारस्य आम्रवृक्षस्य मूले आविरासीत् प्रकटीबभूव । स कीदृशः । यस्य शिवस्य अग्निर्भवत्युत्पद्यते यस्याः सा तथाभूता दृक् दृष्टिः तृतीयनेत्रमित्यर्थः । अग्नेर्भवतीत्यग्निभूश्च तनूभवश्व पुत्रोऽपि वर्तते । स षडानन इस्यर्थः । “पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः" इत्यमरः । तथा भूषा भूषणं चापि, नागानां सर्पाणां राजी पङ्क्तिः, योषा पत्नी चापि नगराजस्य पर्वतराजस्य हिमालयस्य अपत्यं स्त्री कन्या नागराजी, पार्वतीत्यर्थः । वर्तते । स तादृश इति संबन्धः ॥ ३२० ॥
वयस्येति । हे वयस्य, विश्वविलक्षणं लोकविरुद्धं नश्वरजडप्रपञ्चासतजनविलक्षणमित्यर्थः । चारित्रं आचरणं यस्य सः सततमात्मलीनत्वात् । तं रुद्रं किं वर्ण
१ 'आविरास्ते'. २'च आह्वय'. ३ 'अन्वर्थयनिह'.
For Private And Personal Use Only