________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८० विश्वगुणादर्शचम्पू:- [श्रीमदेकानेश्वर
वि०-अवधेहि तावदभिधास्यामि रहस्यम् ॥ १२९ ॥ अङ्गानुषङ्गोदितशीतबाधामिन्दोर्बुसिन्धोश्च समन्वयेन ॥ हर्तु वहत्यग्निमयीं तृतीयां हरो हसन्तीमिव हन्त दृष्टिम् ॥ ३२१॥
कृ०-हन्त तर्हि तुहिनकिरणशकलसुरसरिझरीशिशिरशिरसस्त्रिपुरहरस्य कथमभिषेकप्रियता ? ॥ १३०॥
ततश्चगङ्गातरङ्गावलिभिः सुधांशोः सुधाझरैश्चानिशमामूर्ध्नः ॥ वृऑभिषेकं कलयन्ति शम्भोस्तृप्ताय तोयस्यै ददत्यपः के ॥३२२ ॥ यसि ? हि यतः लोके लोचनयोः शैत्यसंपिपादयिषया शीतत्वसंपादनेच्छया यतमानान् यत्नं कुर्वाणान् जनान् पश्यामः अवलोकयाम एव । अयं रुद्रस्तु पशूनां गवादीनां "अहमेव पशूनामधिपतिः” “सर्वे देवास्तु पशवो ब्रह्म-विष्ण्विन्द्रपूर्वकाः । प्रोक्तस्तेषां पतिर्यस्मादतः पशुपतिः स्मृतः ।" इति श्रुति-स्मृत्यादिपर्यालोचनया पशूनां देवानां पतिः खामीति च, स्थाणुः शुष्कवृक्षः, “सर्ववैकारिकलये स्थाणुस्तिष्टति येन सः" इति स्मृतेः प्रलयोत्तरमपि स्थितिमान् इति च, इत्येतद्वयं खस्य आह्वयं नाम अन्वर्थयनिव यथार्थ कुर्वनिव आशुशुक्षणिं अग्निं "अग्मिः-" इत्यतः “शिखावानाशुशुक्षणिः” इत्यमरः । अक्षिण लोचने निक्षिप्तवान् ॥ १२८॥ __ अवधेहीति । तावत् साकल्येन रहस्यं गौप्यं अभिधास्यामि कथयामि अवधेहि ॥ १२९ ॥ __ अङ्गानुषङ्गेति । इन्दोश्चन्द्रस्य युसिन्धोः गङ्गायाश्च समन्वयेन संबन्धेन अङ्गेषु सर्वावयवेषु अनुषङ्गा प्रसरन्ती उदिता उत्पन्ना या शीतबाधा शीतपीडा तां हर्तु दूरीकर्तुं अयं शिवः अग्निमयीं अग्निप्रचुरां तृतीयां दृष्टिं हसन्ती अङ्गारधानीमिव "अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि" इत्यमरः । वहति धारयति । हन्तेत्यानन्दे ॥ ३२१॥
पुनरपि सपरिहासं दोषान्तरमाह-हन्तेति । हन्तेति खेदे । यद्येवं तर्हि तुहिनकिरणश्चन्द्रः तस्य शकलं कलात्मकं खण्डं, सुरसरितः गङ्गायाः झरी प्रवाहस्तेन शिशिरं शीतलं शिरः यस्य तस्य त्रिपुरहरस्य शिवस्य अभिषेकस्य प्रियता कथम् ? ।। १३०॥
उक्कामाशङ्कामेव द्रढयति-गङ्गेति । गङ्गायास्तरङ्गावलिभिः ऊर्मिपङ्क्तिभिः सु. धांशोश्चन्द्रस्य सुधाझरैः अमृतप्रवाहैश्च अनिशं सततं आर्द्रमूर्ध्नः क्लिनमस्तकस्य शंभोः' तद्भक्ता इति शेषः । अभिषेकं रुद्रसूक्तादिमन्त्रस्नानं वृथा कलयन्ति कुर्वन्ति । यतः तोयस्य जलपानेनेत्यर्थः । “कर्तृ-कर्मणोः कृति" इति षष्टी । तृप्ताय अप
१ ‘अङ्गानुषङ्गामति', 'गङ्गानुषङ्गोदितशीतबाधाम्'. २ तदन्वयेन'. ३ 'सुरसरिद्वरशिशिरशिरस'. ४ 'मुधा'. ५ तोयेन'.
For Private And Personal Use Only