________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २६] पदार्थचन्द्रिकाटीकासहिता। १८१ वि०-अत्रापि युक्तमुत्तरं व्याहरामि ॥ १३१॥ ज्वलनाकलनाद्विषस्य पानाद्विषभाजां वहनाच्च तप्तमूर्तेः ।। अनिशं त्रिदशापगाधरस्याप्यभिषेकप्रियता शिवस्य जाता ॥ ३२३ ॥ कृ०-अस्त्विदमैथाप्यन्यदपि न युज्यते । किमसौ विहाय विहायसं संततं शङ्करशिरसि गङ्गातरङ्गान्तः प्रतिवसति मृगाङ्कः कृशाङ्गः ॥ १३२ ॥
वि०-शृणु सखे तत्र कारणम् ॥ १३३ ॥ शिवशिरसि शीतभानुः सागरसूनुत्वसूचनाय परम् ॥ अधिवसति तन्महिष्या गङ्गाया जठरमल्पतनुरेषः ।। ३२४ ।।
कृ०-तथापि लुब्ध एष फलप्रेप्सुभिरनादृत्यः ॥ १३४ ॥ उदकानि पुनः पातुमित्यर्थः। के ददति प्रयच्छन्ति ? अपि तु केऽपि नैव ददतीत्यर्थः ॥ ३२२॥
अत्रापीति । अत्राभिषेकविषयेऽपि युक्तं समर्पकमेवोत्तरं व्याहरामि कथयामि ॥१३१॥
किं तदित्यपेक्षायामाह-ज्वलनेति । ज्वलनस्य ललाटस्थतृतीयनेत्रामेः आकलनात् स्वीकारात्, विषस्य कालकूटसंज्ञकस्य पानात् प्राशनात् , विषभाजां सर्पाणां । कटककुण्डलाद्यलंकारत्वेन वहनाद्धारणाच हेतोः तप्ता संतप्ता मूर्तिः शरीरं यस्य तस्य शिवस्य अनिशं संततं त्रिदशापगायाः गङ्गायाः धरस्य धारकस्यापि सतः, अभिषेकप्रियता जाता ॥ ३२३ ॥
अस्त्विति । इदं अभिषेकसंबन्धि कथनं अस्तु तिष्ठतु अथापि अन्यत् इदं वक्ष्यमाणमपि न युज्यते । तत्किम् ? असौ मृगाङ्कश्चन्द्रः कृशाङ्गः अल्पशरीरः सन् विहायसमाकाशं विहाय त्यक्त्वा, संततं शंकरशिरसि गङ्गायास्तरङ्गाणामन्तः मध्ये किं कुतो हेतोः प्रतिवसति ? ॥ १३२॥
शिवशिरसीति । एषः शीतभानुश्चन्द्रः सागरस्य समुद्रस्य सूनुत्वसूचनाय पुत्रत्वज्ञापनायेव, गम्योत्प्रेक्षेयम् । परमत्यन्तं अल्पतनुः कृशशरीरः सन् शिवशिरसि शंकरमस्तके तस्य समुद्रस्य महिष्याः स्त्रियाः गङ्गायाः जठरमुदरं अधिवसति अधितिष्ठति । “अधिशीङ्-स्थासाम्-" इत्याधारस्य कर्मसंज्ञा ॥ ३२४ ॥
अन्यदपि दूषणमुद्घाटयति-तथापीति । तथापि गङ्गा-चन्द्रादियुक्तत्वे सत्यपि एषः शिवः लुब्धः लोभयुक्तः आदिकिरातश्च, फलप्रेप्सुभिः फलं स्वर्गापवर्गादिरूपमिच्छुभिः अनादृत्यः न आदरणीयः ॥ १३४ ॥
१'हरस्य'. २ 'अस्त्वेवमथाप्यन्यदप्यनुयुज्यते'.
For Private And Personal Use Only