________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २५] पदार्थचन्द्रिकाटीकासहिता।
शम्भोः स्फुरन्मुकुटभूषणदानचुन्नुमम्भोनिधेः श्वशुरमाप्तगिरो यमाहुः ॥ ३११ ॥
अथ श्रीकामाक्षीदेवीवर्णनम् २५.
इति किंचिदन्तरमतिक्रम्य । अत्र हि
काञ्चीनगरविभूषा कामाक्षी कल्पमञ्जरी भजताम् ॥
रक्षा सुरसेनानां राजति शर्वस्य सर्वखम् ॥ ३१२ ॥ निरूप्य सविस्मयानन्दं कामाक्षीमामन्त्र्यदन्तश्रीस्तव दृश्यते यदि ततः कुन्दं न निन्दन्ति के
वक्रं यद्यभिलक्ष्यते बुधजनश्चन्द्रं न संद्रक्ष्यते ॥ दृष्टे दृष्टियुगे पुनर्न विनुयाहालोऽपि नीलोत्पलम्
सूक्तिश्चेदनुभूयते मधुरता कामाक्षि का माक्षिके ॥३१३ ॥ भावादिति भावः । त्रैविक्रमः स पादः चरण: पायात् नः सर्वान् रक्षतु । कथंभूतः सः। यं त्रैविक्रमपादं, आप्तगिरो वेदवाण्यः शंभोः स्फुरत् प्रकाशमानं यन्मुकुटभूषणं तस्य दानेन प्रसिद्धम् । शिवस्य गङ्गाशिरस्त्वादिति भावः । "तेन वित्तश्चुचुप्-चणपौ” इति प्रसिद्धार्थे चुचुप् प्रत्ययः । तथा अम्भोनिधेः समुद्रस्य श्वशुरं च, तस्य गङ्गाजानित्वात् । आहुः कथयन्ति । स इति संबन्धः ॥ ३११॥
काञ्चीति । काञ्चीनामकनगरस्य विभूषा अलंकाररूपा, भजतां सेवमानानांजनानां कल्पमञ्जरी कल्पवृक्षस्य वल्लरिः, सुरसेनानां देवसैन्यानां रक्षा रक्षणकर्तीत्यर्थः । शर्वस्य शिवस्य सर्वखं सर्वद्रव्यं, एतादृशी कामाक्षी एतन्नामिका देवी राजति शोभते ॥ ३१२ ॥
दन्तश्रीरिति । हे कामाक्षि देवि, तव दन्तानां श्रीः शोभा यदि दृश्यते ततः तद्दर्शनात् कुन्दं माध्यकलिकां, के जनाः न निन्दन्ति ? अपि तु सर्व एव निन्दन्तीत्यर्थः । एवमुत्तरत्राप्यूयम् । तथा तव व मुखं यदि अभिलक्ष्यते दृश्यते, तदा बुधजनः ज्ञानी नरः चन्द्रं न संद्रश्यते नैव पश्यति । तथा तव दृष्टियुगे लोचनयुग्मे दृष्टे सति । पुनः बालोऽपि किमुत प्राज्ञः नीलोत्पलं नीलकमलं न विनुयात् न स्तुयात् । तथा सुष्टु मधुरा उक्तिः वाणी अनुभूयते श्रूयते चेत् , तदा माक्षिके मधुनि मधुरता का ? अपि तु नास्त्येवेत्यर्थः । एवं तव सौन्दर्यस्याने सर्वमपि वस्तुजातं तुच्छमिति भावः । अत्र दन्तश्रीरित्यायुपमेयैः प्रसिद्धकुन्दाद्युपमानानां तिरस्कारप्रती
१ 'शर्वस्य शर्वरी सुखदा', 'सर्वस्य सर्वस्वं'. २ 'दृष्टं दृष्टियुग'. ३ 'नीलोत्पले'.
For Private And Personal Use Only