________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५६
विश्वगुणादर्शचम्पू:- [काञ्चीविश्वावसुः-सखे श्लेषभङ्गयैव दोषमुद्भावयता भवता तस्मिन्नखिलहेयप्रत्यनीकतैवाविष्कृता । युक्तं चैतत् ॥ १०९॥
पद्मोल्लासविधायिनि सत्पथदीप्तिकृति चक्रभव्यकरे ॥
भाखति वरदे भविता न जातु दोषानुषङ्गवार्तापि ॥ २७४ ॥ समन्तादवलोकयन्नञ्जलिं बद्धासेवेऽनन्तसरः श्रये करिगिरि श्रीपुण्यकोट्या सैमम्
ध्यायाम्युत्तरवेदिमत्र महितं देवाधिराज भजे ॥ कल्याणी कलयामि कंजनिलयां कल्याणकोटिस्थिता
मीडे राघव-यादवादिमकिटीन्वन्दे मुकुन्दाश्रितान् ॥ २७५ ।। इति प्रतीच्यां दिशि किंचिदन्तरमतिक्रम्य सविस्मयानन्दम----
अथ विश्वावसुः कृशानोः श्लिष्टार्थमभिनन्दयन्नाइ-सख इति । हे सखे, श्लिष्यति एकीभवति अर्थबाहुल्यं यत्र स श्लेषः तस्य भङ्गया रीत्या दोषमुद्भावयता आरोपयता भवता, तस्मिन् वरदे अखिलानां हेयानां दोषाणां प्रत्यनीकता विरोधितैवाविष्कृता प्रकटीकृता । अत एव एतत् युक्तम् ॥ १०९ ॥
युक्तत्वमेव प्रतिपादयति-पति । पद्मानां कमलानां पद्माया लक्ष्म्याश्च उल्लासं विकासं विधत्ते तच्छीलः उल्लासविधायी तस्मिन् , सत्पथस्य आकाशस्य सन्मार्गस्य च दीप्ति प्रकाशं करोतीति दीप्तिकृत् तस्मिंश्च, चक्राणां चक्रवाकानां भव्यकरे संभोगरूपकुशलसाधके "भावुकं भविकं भव्यं कुशलं" इत्यमरः । चक्रेण सुदर्शनेन च भव्यः शोभनः करो हस्तो यस्य तथाभूते च, वरान् इष्टार्थान ददाति तस्मिन् भास्वति सूर्ये, तेजखिनि भगवति वरदे देवे च, दोषानुषङ्गस्य रात्रिसंबन्धस्य, दोषाणां दुरितानां अनुषङ्गस्य संबन्धस्य च वार्ता कथा जातु कदाचिदपि न भविता नैव भविष्यति ॥ २७४ ॥
सेवे इति । अहं अनन्तसरो नामात्रयं तीर्थ सेवे, करिगिरि हस्तिशैलं श्रये आश्रये, श्रीपुण्यकोट्या विमानेन समं सह उत्तरवेदि ब्रह्मकृताश्वमेधीयां ध्यायामि । अत्र उत्तरवेद्यां महितं पूजितं देवाधिराज श्रीवरदं भजे, तथा कल्याणानां कोटौ प्रकर्षे "कोटिः स्त्री धनुषोऽग्रेऽश्री संख्याभेद-प्रकर्षयोः" इति मेदिनी । अर्थात् श्रीविष्णौ विमाने वा (2) स्थितां, तत्र विष्णौ प्रेमाश्रयेण, विमाने चोपवेशनेन च स्थितिरिति बोध्यम् । कल्याणी स्वयं कल्याणरूपिणीं कंजनिलयां पद्मालयां लक्ष्मी, कलयामि शरणं व्रजामि । राघवो रामचन्द्रश्च यादवः श्रीकृष्णश्व आदिमकिटिः आदिवराहश्च तान् । “वराहः सूकरो घृष्टिः कोल: पोत्री किरिः किटिः" इत्यमरः । ईडे स्तौमि, तथा मुकुन्दाश्रितान् श्रीकृष्णभक्तांश्च वन्दे नमस्करोमि ॥ २७५ ॥ १ 'सकलहेयप्रत्यनीकतैवास्मिन्नाविष्कृता.' २ 'श्रीपुण्यकोट्याश्रयम्.'
For Private And Personal Use Only