________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २१ ]
पदार्थचन्द्रिकाटीकासहिता ।
१५५
पुनः सानन्दम्भुवनवहनशीला सिन्धुरागं भजन्ती
जयति वरदमूर्तिः साधु वेगापगा च ॥ दमयितुमवतीर्णा धातृयज्ञं द्वितीया
सफलयितुमिहाद्या सादरा प्रादुरासीत् ॥ २७२ ॥ कृ०-वयस्य तवेयं जयानभिज्ञे तस्मिन् जयतीत्युक्तिरयुक्ता । सवनसफलीकरणभणितिरपि तत्प्रौतिकूल्यभाजि नोचिता ॥ १०८ ॥ तथाहि
अजयज्ञोद्भवे तस्मिन्कथं नाम जयज्ञता ? ॥
सवनाशानुकूले का सवसाफल्यकारिता ? ॥ २७३ ॥ भुवनेति । भुवनानां स्वर्गादिलोकानां जलानां च वहनं धारणं प्रवहणं च शीलं स्वभावो यस्याः सा, सिन्धुरः गजः तन्नामा यः अग: पर्वतस्तं हस्तिशैलमिति यावत् । पक्षे सिन्धौ समुद्रे यो रागः प्रेमा तं च भजन्ती सेवमाना सा वरदमूर्तिः वरदाभिधाना भगवतो मूर्तिः, वेगापगा वेगवतीनाम नदी च साधु यथा तथा जयति । तत्र द्वितीया वेगापगा धातुर्ब्रह्मणः यज्ञं दमयितुं विनाशयितुमवतीर्णा आविर्भूता । आद्या वरदराजमूर्तिस्तु इह काच्यां नगर्यो, धातृयज्ञ सफलयितुं सफलं कर्तु, सादरा आदरसहिता सती प्रादुरासीत् प्रकटीबभूव ॥ २७२ ॥
वयस्येति । हे वयस्य मित्र, जये अनभिज्ञः अनिपुणः जयानह इत्यर्थः । तस्मिन् करदराजे इयं तव 'जयति' इत्युक्तिः अयुक्ता अयोग्या । तथा सवनस्य यज्ञस्य सफलीकरणभणितिः सफलीकरणोक्तिरपि, तस्य यज्ञस्य प्रातिकूल्यं विरुद्धत्वं भजतीति तद्भाक् तस्मिन् नोचिता न योग्या ॥ १०८॥
उक्तार्थमेव प्रपञ्चयति-अजेति । जयं सर्वोत्कर्ष न जानातीयजयज्ञः, अजन्च ब्रह्मदेवस्य यज्ञोऽश्वमेधश्च तस्मात् उद्भवे उत्पन्ने तस्मिन् वरदे जयज्ञता जयज्ञानत्वं कथं नाम ? अपि तु नास्त्येवेत्यर्थः । तथा सवस्य यज्ञस्य नाशे विनाशे अनुकूलः, सवनाशानां यज्ञभुजां देवानां अनुकूले च तस्मिन् , सवस्य यज्ञस्य साफल्यकारिता सफलीकरणत्वं का नाम ? नास्त्येवेत्यर्थः । अत्र मुद्रितपुस्तकटीकायां अन्यदप्यर्थान्तरं दृश्यते । यथा-'पूर्वार्द्ध कथं नामेत्यत्र 'कथं न अम' इति छित्त्वा, हे अम भाग्यरहित कृशानो, तस्मिन् वरदे जयज्ञता कथं नास्तीति काकुः । अस्त्येवेत्यर्थ इति । उत्तरार्द्धं च ‘कासव-' इत्यत्र अकारं प्रश्लिष्य असवसाफल्यकारिता केति काकुः । नास्त्येव ? अपि तु सवसाफल्यकारितैवास्तीत्यर्थान्तरं चातुर्यात्कल्पयन्ति' इति । श्लेषालंकारः ॥ २७३ ॥
2 'सिन्धुराज.' २ ‘सादरं.' ३ 'तत्प्रातिकूल्यभाजिनि नोचिता'
For Private And Personal Use Only