________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता ।
उत्पाद्य खयमुत्तमान् फलतरूनुल्लास्य चारूदकै__ रुन्मत्तोऽपि किमुच्छिनत्ति जगति च्छित्त्वापि किं नन्दति ॥१५॥ किंचखानुज्ञामनवाप्य दर्पभरतः खाज्ञां विलकेत य
स्तस्यैवेह तनोति लौकिकनृपश्चण्डोऽपि दण्डं रुषा । अन्तर्याम्यपथे प्रवर्त्य भविनो हन्त खयं नारके
यस्तान् पातयति क्रुधा स तु न किं ? नारायणो निघृणः ॥१६॥ स्तवनभाजनीकृतो मुकुन्दो नारायणः, आदौ सृष्टिकाले खेन रजोभूयसी खां प्रकृतिमधिष्ठायास्थितचतुर्मुखरूपेण, निखिलं संपूर्ण “समस्त-निखिलाखिलानि निःशेषम्।समग्रं सकलं पूर्णम्" इत्यन्तोऽमरः। जगद्विश्वं विरचितमुत्पादितं, तथा खेनैव सत्त्वप्रकृष्टां प्रकृतिमधिष्ठायाविष्कृतविष्णुखरूपेण संरक्षितं पालितं, एतादृशमिदं जगत्, पुनः खत एव भिन्दन् विनाशयन् तमोगुणप्रचुरांरुद्रतनुमाश्रित्येति भावः । एतावत् कृत्वैवन स विरराम, किं तु पुनर्विधृतानन्दः युक्तं कृतं मयेति मत्वा मोदमान इत्यर्थः। अत एवायं निन्दोचितः निन्दितुं योग्यो न तु स्तोतुं योग्य इत्यर्थः। हन्तेति विषादे । एतदेव लौकिकोदाहरणेन दृष्टान्तयति-उत्पाद्येति । जगति लोके यः कश्चित् उन्मत्तोऽपि, न तु सावधान इति अपिशब्दस्वारस्यम् । खयं उत्तमान् फलतरून् फलदान् वृक्षान् , उत्पाद्य भूमौ बीज निक्षिप्य अङ्कुरितान् कृत्वा, अपि च चारूणि वृक्षपोषणपर्याप्तानि च तानि उदकानि जलानि तैः वृक्षपोषणपर्याप्तजलसेचनैरित्यर्थः । ( यद्यप्यमरे "सुन्दरं रुचिरं चारु" इति चारुशब्दस्य सुन्दरवाचकत्वं, तथाप्यत्र जलस्य वृक्षपोषणेनैव सुन्दरत्वमित्यभिप्रेत्यायमुपरितनोऽर्थः कृत इति ज्ञेयम् ।) उल्लास्य संवर्ध्य, खयमेव उच्छिनत्ति किम् ? अपि च छित्त्वापि नन्दति आनन्दं करोति किम्? अपि तु नैव छिनत्ति नैव नन्दति चेत्यर्थः । यदि लोके साधारणोऽपि जन: “विषवृक्षोऽपि संवर्ध्य वयं छेत्तुमसाम्प्रतम्" इति नयमनुसृत्य खयमुत्पादितस्य खत एवोच्छेदकरणमनुचितमिति जानाति, तर्हि यस्त्रिलोकीमुत्पादयति पालयति च, तेन नारायणेनायं नयः किं न ज्ञातुं शक्यः ? अपि तु शक्य एव । तथापि यदायं खयमुत्पादितान् लोकान् बुद्धिपूर्वकं विनाशयति, तदायमत्यन्तं निघृण एवेति भावः । अत्र प्रकृतवाक्यार्थस्य 'खेनादौ-' इत्यादेः तद्धटकस्य 'उत्पाद्य' इत्यादिवाक्यार्थस्य च बिम्बप्रतिबिम्बभावात्. वैधये॒ण दृष्टान्तालंकारः । तदुक्तम्- "दृष्टान्तः पुनरेतेषां (उपमादीनां ) सर्वेषां प्रतिबिम्बनम्" इति । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तं प्राक् (२ श्लोकटीकायाम् ) ॥ १५ ॥
किंच स्वानुशामिति । यः कश्चित् जनः सेवको वा दर्पभरतः गर्वातिशयाद्धेतोः, पञ्चम्यास्तसिल् । खस्य (लौकिकनृपस्य ) अनुज्ञां संमति अनवाप्य अगृहीत्वा, खस्य (लौकिकनृपस्य) आज्ञां विलछेत उल्लचेत, तदा चण्डः अतिकोपयुक्तः "चण्डस्त्वत्यन्तकोपनः" इत्यमरः । अपि, लोके भवः लौकिकः स चासौ नृपश्चेति
For Private And Personal Use Only