________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणावर्चचम्पू:- - वि०-अहो! तव मतिरतिस्थूला, यतः परमकारुणिकं भमकासं पअजवासिनीप्राणनाथमपि स्मृशति तवोपालम्भः । आकर्णयेवम् ॥ ४ ॥
चिराय संसृत्युदधौ समजनं
नमजन मज्जन इत्यधोक्षजः ॥ दयापयोधिः परिगृह्य दुर्लभं
निजं पदं प्रापयति खयं प्रभुः ॥ १७ ॥ विप्रहः। लौकिको राजेत्यर्थः । रुषा खाजोल्लङ्घनजनितक्रोधेन, तस्यैव आज्ञोल्लङ्घनकर्तुरेव, इह दण्डं शिक्षां तनोति करोति । न त्वन्यस्यानपराधिन इत्यर्थः । योऽयं नारायण. स्तु अन्तः मनः यमयति प्रेरयति तच्छीलः अन्तर्यामी । ताच्छील्ये णिनिः । हृदये तिष्ठन् शुभाशुभकर्मप्रेरक इत्यर्थः । “ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यत्रारूढानि मायया" इति स्मृतेः । एतादृशः सन् खभावत एव भविनः संसारयुक्तान् जनान् अपथे दुर्मार्गे दुष्कर्मणीत्यर्थः । प्रवर्स, खयमेव तान् दुष्कर्मकर्तृन् जनान् , क्रुधा रोषेण नारके निरये "स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।" इत्यमरः । पातयति । हन्तेति खेदे । सः निघृण: निर्दयः न किम् ? अपि त्वत्यन्तं निघृण एवेत्यर्थः । अयमाशयः-लौकिकनृपो हि अपराधिनमनपराधिनं च दृष्ट्वैव अपराधिनं दण्डयति, खनियमप्रसिद्ध्या च लोकान् नीतिपथमनुशिक्षयति च; अयं (नारायणः) तु यान्तर्यामी, तर्हि अनेनापि सर्वे लोकाः सन्मार्गे एव प्रवर्तयितव्याः; तथा सति सर्वेऽपि जनाः सत्कर्माणि कृत्वा सद्गति. मेवाप्नुयुः, न कश्चिदपि दुर्गति, परं तु तदकुर्वन् यदा दुष्कर्मण्येव प्रवर्त्य दुर्गति गमयति तदाऽत्यन्तं निघृण इति । अत्र 'खानुज्ञामनवाप्य-' इत्यादिवाक्यस्य विवक्षितवचनेन हेतुत्वात् काव्यलिङ्गमलंकारः, उत्तरत्र अपराधकारणाभावेऽपि दण्डकार्यकथनात् विभावनालंकारः । एवं च उभयत्रापि परस्परवाक्यापेक्षणादङ्गाङ्गिभावाच्च द्वावपि मिलित्वा संकरालंकारः । तदुक्तम्-"अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वंतु संकरः" इति। वृत्तं च शार्दूलविक्रीडितम् । लक्षणं (२ श्लो० टी०) पूर्वोक्तमेव॥१६॥
अथ कृशानुना उद्घाटितं निघृणत्वरूपं दोषं परिहरन्नाह विश्वावसुः-अहो इति । अहो इत्याश्चर्ये । अथवा अहो इति संबोधनार्थम्, हे कृशानो इत्यर्थः । तव मतिः बुद्धिः अतिस्थूला सदसद्विवेकशून्या । कुत इत्यत आह-यतः यस्मात् कारणात् , परमकारुणिकमत्यन्तदयालु "स्याद्दयालुः कारुणिकः” इत्यमरः । भगवन्तं षड्गुगैश्वर्यसंपन्न, पङ्कजवासिन्या लक्ष्म्याःप्राणनाथं पति नारायणमपि, तव संबन्धी त्वत्कृत इत्यर्थः । उपालम्भो निन्दा स्पृशति परामृशति, तमपि निन्दसीति यावत् । तस्मात् इदं नारायणविषये करुणाप्रतिपादकं वचः, आकर्णय सावधानमनसा शृणु ॥ ४ ॥ . चिरायेति । दयापयोधिर्दयासागरः, अनेन नायं प्राकृतलोक इव केनचित्कारणेन दयाशीलः, किंतु कारणं विनापि खभावत एवापरिमितदयाशील इति सूचितम् । अधो
For Private And Personal Use Only