________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् २]
पदार्थचन्द्रिकाष्टीकासहिता ।
किंचलीलालोलतमा रमामगणयन्नीलामनालोकयन्
मुञ्चन् किंच महीमहीश्वरमयं मञ्चं हठाद्वश्चयन् ॥ आकर्षन् द्विजराजमप्यतिजवाद्धा हन्त लोकान्तरात्
गोप्तुं शौरिरुदित्वरत्वर उदै ग्राहग्रहात गजम् ॥ १८ ॥ क्षणोऽयं नारायणः संसृतिरूपे संसाररूपे उदधौ समुद्रे चिराय बहुकालपर्यन्तं समबनं मजनेन परिभ्रमणेन सहितं, परं तु संसारदुःखपरिहारायेति शेषः । नमन् भक्तिपूर्वकं नमस्कुर्वैश्वासौ जनो लोकश्च तं, मज्जनः मदीयोऽयंजन इति एवंप्रकारेण खयं परिगृह्य खीकृत्य, इतिना कर्मणोऽभिहितत्वात् प्रथमा । प्रभुः कर्तुमकर्तुमन्यथा कर्तुमपि समर्थः, दुर्लभं भक्त्या विना दुष्प्रापं, निजमात्मीयं पदं स्थानं वैकुण्ठलोकमित्यर्थः । प्रापयति नयति । अत्र पद्ये पूर्वार्धे अनुप्रासालंकारः' तच वाक्यं निजजनत्वेन खीकरणस्य निजपदप्रापणस्य च हेतुरूपं तेन काव्यलिङ्गमलंकारः। एवं चात्र काव्यलिङ्गानुप्रासयोः संसृष्टिः "सैषा संसृष्टिरेतेषां भेदेन यदिह स्थितिः" इति तल्ल. क्षणात् । वंशस्थवृत्तम् । लक्षणमुक्तं प्राक् (१० श्लोकटीकायाम् ) ॥ १७ ॥
यदुक्तं 'नमजनं मजन इति परिगृह्य निजं पदं प्रभुः प्रापयति' इति, तदेव कैश्चित् पुराणप्रसिद्धस्तदवतारचरित्रैर्दर्शयति-तत्र तावत् प्रथमं भगवत्कृतं गजेन्द्रमोक्षं कथयति-लीलेत्यादिना । किंच प्राहस्य नक्रस्य "प्राहोवहारो नकस्तु" इत्यमरः । प्रहात् ग्रहणात् आते पीडितं गजं हस्तिनं "दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतंगजो गजो नागः" इत्यमरः । गोप्तुं रक्षितुं, उदित्वरा आविर्भवन्ती त्वया संभ्रमो यस्य सः । उदित्वरेत्यत्र उत्पूर्वकात् 'इण् गतौ' इत्यस्मात् धातोः सकाशात् "इण-नशजि-सर्तिभ्यः करप्" इति करप्प्रत्ययः "हखस्य पिति कृति-"इति तुक् । शूरस्य वसुदेवस्य अपत्यं शौरिः “अत इञ्" इत्यपत्यार्थे इञ्। कृष्ण इत्यर्थः । लीलया शृङ्गारभावेन"हेला लीलेयमी हावाः क्रियाः शृङ्गारभावजाः” इत्यमरः । अतिशयं लोला कामतृष्णायुता तां, "लोलश्चल-सतृष्णयोः” इत्यमरः । रमां, लक्ष्मी अगणयन् अपश्यन् , नीला कालिन्दी अनालोकयन् तामप्यपश्यनित्यर्थः।भगवता हि कृष्णावतारे कालिन्दीनाम्न्यास्तपस्यन्त्याः स्त्रियाः खीकारः कृतः इति श्रीभागवते दशमस्कन्धे प्रसिद्धम् । यद्वा नीला नामजिती तस्मिन्नेवावतारे परिणीता ज्ञेया । "नीलां नग्नजितः पुत्रीं” इति मणिमञ्जरीकाव्ये तथा दर्शनात् । किंच महीं पृथिवीदेवीं मुञ्चन् त्यजन्, पृथिव्यपि विष्णुपत्नीति "समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपनि नमस्तुभ्यम्-" इत्याद्यागमप्रसिद्धम्। तथा अहीश्वरमयं शेषखरूपं मञ्चं शयनं च"शयनं मञ्च-पर्यक-" इत्यमरः । हठात् सहसा वश्चयन् तिरस्कुर्वन् , अपि च द्विजानां पक्षिणां राजा गरुडवं, "राजाहःसखिभ्यः-" इति टच् । "दन्त-विप्राण्डजा(पक्षिणः)द्विजाः" इति "गरुत्मान्
१ 'उपैत्'.
For Private And Personal Use Only