________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [सूर्यवैकुण्ठो महताहताखिलमहारम्भं मदेनोच्चकै__श्चण्डं खण्डयितुं हिरण्यकशिपुं वेतण्डमुत्कण्ठया ॥ सैंह वेषमशेषभीषणमहो गृह्णन् त्वरागौरवात्
प्रहादव्यसनासहिष्णुरुदगादाकण्ठकण्ठीरवः ॥ १९ ॥
गरुडस्तायो वैनतेयः खगेश्वरः" इति चामरः । आकर्षन् भक्तपीडापरिहारार्थ सत्वरं गन्तुमित्यर्थः । लोकान्तरात् वैकुण्ठात् , अतिजवात् अतिवेगेन, उदैत् आगमत् 'इण् गतौ' इति धातोः कर्तरि लङ् । हा हन्त इति निपातसमुदायात् भक्तपीडा. परिहारार्थमत्यन्तदयावत्त्वं भगवतः सूच्यते। "हा विषाद-शुगर्तिषु । हन्त हर्षेऽनुकम्पायां" इत्यमरात् । एतेन पद्येन यदि गजस्य पशोरपि भक्तिं दृष्ट्वा तत्राणार्थ भगवान् एवं करोति, तदा मनुष्यार्थ कुर्यादित्यत्र किमु वक्तव्यमिति सूचितम् । गजस्येयं कथा महाभारते शान्तिपर्वणि प्रसिद्धा । यथा-चित्रकूटपर्वते एकं परमरमणीयं सरोवरमासीत् । यस्मिन्नेको महानकः प्रतिवसति स्म । तस्मिन्नेव सरसि क्रीडाथै करिणीभिः सह कश्चिन्महागजः समाययौ। स च जले प्राविशत्। तदा स नक्रेण निजास्येन सुदृढं पादे धृतः । तदा गजस्तं नकं केनाप्युपायेन निवारयितुमशक्नुवननन्यभावेन भगवन्तं नारायणमेव शरण्यं मत्वा पुष्कराग्रेण सरःस्थमेकं पङ्कजं तस्मै समर्म्य "ॐ नमो मूलप्रकृतये अजिताय महात्मने ।" इत्यत आरभ्य “नमस्ते पुण्डरीकाक्ष भक्तानामभयंकार । सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् । तावद्भवति मे दुःखं चिन्ता संसारसागरे । यावत् कमलपत्राक्षं न स्मरामि जनार्दनम् ॥"इत्यन्तं स्तोत्रं जगौ । तदा परमकारुणिको भगवान् सत्वरमुपेत्य पाहात् गजममोचयदिति। शार्दूलविक्रीडितं वृत्तम् ॥ १८ ॥
अथ नृसिंहावतारे कृतं निजभक्तस्य प्रहादस्य रक्षणमाह-वैकुण्ठ इतिाप्रहादस्य हिरण्यकशिपुपुत्रस्य खभतस्य व्यसनासहिष्णुः तत्पित्रा दीयमानं दुःखमसहमानः "अलंकृञ्-निराकृञ्-" इत्यादिना इष्णुच् प्रत्ययः। वैकुण्ठोऽयं नारायण: विकुण्ठयति पराभवं प्रापयति शत्रूनिति विकुण्ठः 'कुठि प्रतिघाते' इति धातोः "अन्येभ्योऽपि दृश्यन्ते" इत्युणादिसूत्रेणाचप्रत्ययः। विकुण्ठ एव वैकुण्ठः इति विग्रहः । “विष्णुर्नारायणः कृष्णो वैकुण्ठः" इत्यमरः । महता मदेन गर्वेण, हता विनाशिताः अखिलाः सकला महान्तः आरम्भाः तपोयज्ञादिकाः क्रिया येन तं, गजपक्षे तु महता मदेन मदजलेन उपलक्षितं, महान् आरम्भो येषां ते महारम्भाः हताः अखिला महारम्भा उद्यानोपवनादयो येन तं, उच्चकैरतिशयेन चण्डं महाभयंकरं हिरण्यकशिपु एतद्रूपं वेतण्डं गजं, खण्डयितुं विनाशयितुं, उत्कण्ठया हिरण्यकशिपुरूपगजमारणातिशयवाञ्छया, त्वरायाः शीघ्रतायाः गौरवात् अतिशयेन अतीव शीघ्रमित्यर्थः । अशेषाणां संपूर्णानां (शत्रूणां) भीषणं भयंकर, सैंह सिंहसंबन्धिनं वेषं आकारं, गृह्णन् धारयन् , आ
१ 'महसा.
For Private And Personal Use Only