________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २]
पदार्थचन्द्रिकाटीकासहिता ।
अन्यच्च
अवमव्यापाराकलनमतुरीस्पर्शमचिरा___ दनुन्मीलत्तन्तुप्रकरघटनायासमसकृत् ॥ विषीदत्पाञ्चालीविपदपनयैकप्रणयिनः
पटानां निर्माणं पतगपतिकेतोरवतु नः ॥ २० ॥
कण्ठं कण्ठपर्यन्तं “आङ् मर्यादाभिविध्योः” इति समासः । कण्ठीरवः सिंहरूपः सन् अर्थात् नरसिंहशरीरः सन्नित्यर्थः । "कण्ठीरवो मृगरिपुः" इत्यमरः । उदगात् आविर्बभूव । स्तम्भादिति शेषः । अहो इत्याश्चर्ये । 'इण् गतौ' इति धातोर्लुङ् “इणो गा लुडि" इति 'गा' आदेशः। “गाति-स्था-" इत्यादिना सिचो लुक् । एतत् प्रहादचरित्रं श्रीमद्भागवते सप्तमस्कन्धे प्रसिद्धम् । अत्र पूर्वार्धे 'हिरण्यकशिपुं वेतण्ड' इति हिरण्यकशिपावेव गजत्वस्याभेदेनारोपाद्रूपकमलंकारः, उत्तरत्र च 'अशेषभीषणं' इत्यायुक्तः साभिप्रायत्वात् परिकरालंकारः । “तद्रूपकमभेदो य उपमानोपमेययोः" इति "विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः" इति च द्वयोर्लक्षणात् । द्वावपि मिलित्वा संसृष्टिः । शार्दूलविक्रीडितं वृत्तम् ॥ १९ ॥
अथेदानी कृष्णावतारे कृतं खभक्ताया द्रौपद्याः कौरवसदसि वस्त्रपूरणात्मक भगवचरित्रमाह-अन्यश्चेति । अवेमेति । विषीदन्त्याः कुरुसदसि दुःशासनकृतवखापहरणेन दुःखवत्याः पाञ्चाल्याः द्रौपद्याः विपदः वस्त्रापहारकृतदुःखस्य अपनये दू. रीकरणे एकः मुख्यःप्रणयःस्नेहोऽस्यास्तीति तथाभूतस्य । मत्वर्थे इनिः । पतगानां प. क्षिणां "पतत्रिपत्रि-पतग-" इत्यमरः। पतिर्गरुडः केतुर्ध्वजो यस्य तथाभूतस्य भगवतः संबन्धि, भगवत्कर्तृकमित्यर्थः। अवेमव्यापाराकलनं न विद्यते वेम्नः वयनदण्डस्य "पुंसिवेमा वायदण्डः" इत्यमरः। व्यापारस्य आकलनं स्वीकरणं यस्मिन् तत् वयनदण्डग्रहणरहितमित्यर्थः । तथा न विद्यते तुर्याः तन्तुवेष्टनसूक्ष्मदारुविशेषस्य स्पर्शो यस्मिंस्तत् तुरीस्वीकाररहितमपीति यावत् । तथैव च अनुन्मीलत्तन्तुप्रकरघटनायासं अनुन्मीलन् अप्रकटीभवन् तन्तुप्रकरघटनायाः वस्त्रसंबन्धिसूत्रसमूहरचनायाः।“सूत्राणि नरि तन्तवः" इत्यमरः।आयासो यत्नो यस्मितत् । अचिरात् शीघ्रं,असकृत् वारंवारं च पटानां वस्त्राणां निर्माणं उत्पादनं नोऽस्मान् अवतु रक्षतु । एतच्चरित्रं श्रीमहाभारते सभापर्वणि विस्तरेण वर्णितम्। तच्च सर्वे जानन्त्येव परं च तत्समये द्रौपद्या कृतः कृष्णस्तवः प्रेमभकियुतत्वात् , भगवत्कृतपटनिर्माणप्रकारश्चात्र लिख्यते । यथा-"आकृष्यमाणे वसने द्रौपद्या चिन्तितो हरिः। गोविन्द द्वारकावासिन् कृष्ण गोपीजनप्रिय ॥ कौरवैः परिभूतां मां किं न जानासि केशव । हे नाथ ! हे रमानाथ ! ब्रजनाथार्तिनाशन ॥ कौरवार्णवमनां मामुद्धरख जनार्दन । कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन ॥ प्रणतां पाहि. गोविन्द कुरुमध्येऽवसीदतीम् । इत्यनुस्मृत्य कृष्णं सा हरिं त्रिभुवनेश्वरम् ॥ प्रारुददुःखिता राजन् मुखमाच्छाद्य भामिनी । याज्ञसेन्या वचः श्रुत्वा कृष्णो गह्वरितोऽभवत् ॥
For Private And Personal Use Only