________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [सूर्यअपरं चकाकः शोकं व्यसृजदमितं वृद्धगृध्रोऽप्यनेकान्
लोकान् लेभे कुशलमगमन्निर्विषादं निषादः ॥ राज्यं प्राप्तौ कपि-निशिचरौ राघवत्वे मुरारेः
पारे वाचां जयति करुणा पश्य पद्मासखस्य ॥ २१ ॥ त्यक्त्वा शय्यासनं पद्भ्यां कृपालुः कृपयाभ्यगात् । आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते । तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ॥ नानाराग-विरागाणि वसनान्यथ वै प्रभो” इति । अत्र 'अवेमव्यापाराकलनम्' इत्यादिना पटनिर्माणकारणाभावेऽपि कार्यकथनाद्विभावनालंकारः। तदुक्तम्-"क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना" इति । वृत्तं शिखरिणी "रसै रुदैश्छिन्ना य-म-न-स-भ-ला गः शिखरिणी" इति तल्लक्षणात् ॥ २० ॥
सांप्रतं रामावतारप्रसिद्धानि भगवतः कानिचिचरित्राणि वर्णयति-अपरं चेति । काक इति । मुरारेर्मुरनामकदैत्यशत्रोर्नारायणस्य, राघवत्वे रामावतारे, काकः एतद्रूप. इन्द्रपुत्रो जयन्त इत्यर्थः । अमितं अतिशयितं शोकं दुःखं व्यसृजत् तत्याज । तद्वृत्तं हि रामायणे इत्थं-चित्रकूटपर्वते कदाचित् सीताया उत्सङ्गे शिर आधाय भगवान् रामः सुष्वाप, तदैवेन्द्रलोकात् काकरूपधरो जयन्त आगत्य निजनख-तुण्डैः सीतायाः पादाङ्गुष्ठं विदारयामास, सा च भर्तृनिद्राभङ्गभिया पादं न चालयामास । अनन्तरं प्रबुद्धो रामस्तादृशीं प्रियां सीतां दृष्ट्वा काकं च असकृदुत्पतन्तं दृष्ट्वा, तस्यैवायमपराध इति ज्ञात्वा, एकं दर्भखण्डं संमन्य तस्मिन् मुमोच । तदा शरणार्थी स काको ब्रह्मादिदेवान् प्रति जगाम, परं तु रामप्रभावाभिज्ञास्ते तं रक्षितुं नाशक्नुवन् । तदा स राममेव शरणमाययो, शरण्यो रामश्च अमोघास्त्रत्वात् तस्यैकं नेत्रमपहृत्य तं ररक्ष इति । तथा वृद्धगृध्रोऽपि अनेकान् बहून् लोकान् वैकुण्ठादीन् लेभे प्राप्तवान् ‘डुलभष् प्राप्तौ' इत्यस्मालिट् । “अत एकहल्-" इत्यादिना एत्वाभ्यासलोपौ । अयं गृध्रोपि दशरथसख: परमभक्तश्च रामस्य, अनेन सीताहरणसमये रावणेन सह बहु युद्धं कृतं, परं च रावणास्त्रव्यथितः स रामदर्शनाका
क्षी विपिने न्यपतत् । ततो रामेणापि सीतां विचिन्वता खकरस्पर्शात् कृपया खं धाम प्रापितः इति । तथा निषादः कश्चित् गुहनामा श्वपचः “निषाद-श्वपचावन्तेवासिचाण्डाल-पुक्कसाः" इत्यमरः । निर्विषादं दुःखरहितं कुशलं क्षेमं "कुशलं क्षेममस्त्रियाम्" इत्यमरः । अगमत् प्राप्तः । गमधातोर्लङ् लदित्त्वादङ् । अयमपि रामभतस्तत्कृपया दुःखान्मुक्त इत्यपि रामायणे प्रसिद्धम् । तथा कपि-निशिचरौ सुप्रीवविभीषणौ वानर-राक्षसौ राज्यं प्राप्तौ, तस्यैव कृपयेति शेषः । तस्मात् पद्मासखस्य
१ 'व्यजहद०' अस्मिन् पाठे व्यजहदिति रूपं प्रामादिकम् , तस्मादयमपपाठ एवेति भाति । न च तावदभिरूपः कविश्छन्दोभङ्गभियाप्येतादृशं रूपं प्रयुके ।
For Private And Personal Use Only